________________
कथा
अ-मृतं स्वामिगौरवम्
-मुनिरम्याङ्गरत्नविजयः
सेवकस्य तदधिपतिं प्रति सन्निष्ठाया निदर्शनानुसंधाने 'लुकमानो'ऽवश्यं स्मरणीयोऽत्र । स्वस्वामिनं प्रति तस्याऽहोभावोऽनन्य आदर्शभूतश्चाऽऽसीत् । भर्तुर्मनोगतान् भावान् मुखाद् बहिरागमनपूर्वमेव स्वकीयपारदृश्वधिया ज्ञात्वा संपूरयति स्म सः । उक्तञ्च - "अभणन्त एव कार्य, स्वामिनः साधयन्ति सेवकाः", तथा च "निगदिता हि सा (= स्वामिसेवा) सर्वव्रतोत्तमा" । इत्थं स्वाम्यपि सेवकस्येदृशभक्त्याऽतीव प्रसन्नः सञ्जातः ।
एकदा स्वामिना बहिस्ताद् गृहागमनवेलायां कालिन्दफलमानीतम् । आनयनान्तरं स लुकमानमुवाच - 'छुरिकामानय' । तत्र स्थितेन लुकमानेन हस्ते प्रागेव छुरिकाऽवगृहीताऽऽसीत् । स्वामी ईषद्धसित्वा छुरिकां गृहीत्वा च कालिन्दं खण्डयति स्म । नाथस्य अयं नित्यक्रमो यत् कस्यचिदपि पदार्थस्याऽऽनयनानन्तरं लुकमानायैवैदंप्राथम्येन भक्षणार्थं दातव्यमिति ।
प्रसिद्धमेतत् - मातपितरौ कुलजाताय स्वीयपुत्रायैव तस्य भागमैदम्प्राथम्येन यच्छतः ।
एष स्वामी अपि लुकमानं प्रतीदृगेव वात्सल्यं धारयति स्म । लुकमानेन कालिन्दस्य खण्डो गृहीत्वा भुक्तः, क्षणार्धेन स्वामिना द्वितीयांशो ढौकितः, सोऽपि भुक्तः । अनेनैव क्रमेण पञ्चसप्तकृत्वस्तेन फलस्य शकलानि भक्षितानि । स्वाम्यपि प्रसन्नचित्ततया तस्मै कालिन्दं ददाति स्म । एतदनन्तरं नाथेन स्वस्य भक्षणार्थं खण्डमेकं गृहीतं, किन्तु कालिन्दस्य मुखप्रक्षेपसमनन्तरमेव थत्कुर्वता तेन कालिन्दं बहिः क्षिप्तम् ।
तत्पश्चात् लुकमानं प्रति दृष्ट्वा स जगाद - रे लुकमान ! एतत् कालिन्दं तु नितरां तिक्तपरिणाममस्ति । 'आम्, अधिपते !' "तवैतद् तिक्तं न प्रतिभातम् ?"