SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ "यदि तिक्तं भवेत् तहि प्रतिभायादेव" । "तत् किं त्वया तूष्णीम्भावेन भक्षितम् ? मया द्वितीयवारं दत्तं, तदैव त्वया निषेधः करणीय आसीत्" । ... "नहि, स्वामिन् ! मयैतादृशं कर्तव्यं नाऽऽसीत् ।' "किमर्थम् ?" "भवान् स्वामी, अहं सेवकोऽस्मि । सेवकभावे वर्तमानेन मयाऽस्मिन्नवसरे पर्यनुयोगो न करणीयः" । "किन्तु मया त्वमर्वाक् कर्हिचित् 'सेवकोऽसी' ति कथितः ?' "नैव, नाथ !" "तर्हि केन प्रयोजनेनाऽवितथालापने सङ्कुचितोऽसि ?" "स्वामी ! भवता मह्यं प्रेम्णा प्रतिदिनं माधुर्ययुक्तानि प्रत्यग्राणि च फलानि प्रदत्तानि, अद्याऽनभिज्ञानादेव तिक्तफलमेकं भवता दत्तम् । ईदृशे सामान्यप्रसङ्गे यद्येतस्याऽहं प्रतिकारं कुर्याम् उताहो मुखभङ्ग कुर्यां ततोऽहं लोके निर्गुणी एव गण्येय । तथा चाऽत्रभवता भवताऽऽजीवनं मह्यमसकृद् यद् वात्सल्यं प्रदत्तं, तत्पुरत एतस्य कालिन्दस्य तिक्तता मन्मनसि नगण्या मोदावहा च" । लुकमानस्योक्तिं श्रुत्वा स्वामिनो नेत्रे हर्षाश्रुभिः क्लिन्ने जाते । __ भगवद्भिरस्मभ्यं जीवनं दत्तं, जीवनस्याऽसंख्येयानि मिष्टसुखानि वितीर्णानि, नैकोपकाराश्च कृताः, तद्यपि जीवने व्यवहारे च कहिचित् तिक्तदुःखदानुभवेषु तत्क्षणं वयं भगवन्तमुपालभामहे, ततो वयमपि निर्गुणा एव । लोके श्रुतौ च स्वामिगौरव-ममृततया ख्यातम् । ____स यत्किञ्चिदपि दद्यात्, तद्दाने तस्य निर्विवादं प्रेम एव, अतः प्रेम्णः स्वीकरणमेव समुचितं, न तु तिरस्करणम् । ____भो जनाः ! अत्र भगवन्तोऽस्माकं हितेच्छुत्वेनोपकारिणः सन्ति, अतः प्रभोः प्रेमानुग्रहं हर्षेण स्वीकर्तुं समुद्यता भवेम । इति शम् ॥
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy