SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कथा संस्कारप्रपा मुनिः अक्षयरत्नविजयः (१) भिक्षुकं चित्तम् अस्माकं मनो भिक्षुकसदृशं प्रतीयते । यतो भिक्षुकपार्वे यथा धनस्याऽल्पता दृश्यते तथाऽस्माकं मनसि शुभभावस्य हीनता दृश्यते । अत एव महर्षयो ज्ञापयन्ति - ‘एकोऽपि शुभभावो यस्मिन् समये मनसि समुद्भवेत्, तस्मिन्नेव समये तत् शुभकार्यमारब्धव्यम् । अन्यथा शुभभावो विलीनत्वमपि प्राप्नुयात् । क्वचित्तु शुभभावो दुर्भावे परिवर्तनमपि प्राप्नुयात्' । महाँल्लेखको हास्यकलाकारश्च मार्क-ट्वेनः । एकदा स ख्रिस्तधर्मालये गतवान् । तत्र ख्रिस्तधर्मगुरुणा प्रवचनं दीयते स्म । दानधर्मप्रेरकं तत् प्रवचनम् । धर्मगुरोर्वाणी अतिप्रभावसम्पन्नाऽऽसीत् । अतो मार्कट्वेनश्चिन्तितवान् – 'अद्य तु शतडोलरमितधनस्य दानं करिष्यामि' । स हस्तेन धनं गृहीतवान् । ___ स्तोकसमयानन्तरं सभामध्ये दानपात्रस्य पर्यटनमारब्धम् । सर्वे दानार्थिनो जना निजभावानुरूपं दानं कर्तुमारब्धवन्तः । इतो मार्क-ट्वेनश्चिन्तितवान् – 'दानार्थं शतडालरमितधनव्ययस्य काऽऽवश्यकता ? दशाऽपि बहु अस्ति' । दानपात्रं यथा यथा निकटमागतं, तथा तथा मार्क-ट्वेनस्य दानभावेऽपि ‘पञ्चडालरमितं सार्द्धद्विडालरमितं दानं करोमि' इति परिवर्तनमागतम् । दानपात्रं पूर्णतः समीपमागतं, तदा मार्क-ट्वेनो विचारं कृतवान् – 'मया दानार्थं केवलं चिन्तितं, काचिदपि दानघोषणा तु न कृता, अतो मया दानं न कर्तव्यम्' । दानपात्रं तस्य समीपादग्रे गतं तदा तु मार्कटवेन इमं विचारमपि कृतवान् यत् – 'दानपात्रात् यदि किञ्चिद् गृह्णामि तर्हि को बाधः ? दानपात्रे प्रचुरतरं धनमस्ति' । इदं मनोवैचित्र्यं मनःकौटिल्यमस्ति । वयं सावधाना भवेम यदस्माकं मनो भावभिक्षुकतां न प्राप्नुयात्, अपि तु भावकुबेरतां प्राप्नुयादिति।। . (२) हृदयस्पर्शिचिन्तनम् आसीत् कौरवपाण्डवानां गुरुकुलवासस्य प्रथमं दिनम् । अभ्यासस्य प्रथमः पाठ आसीत् । द्रोणाचार्येण पाठितं सर्वेषां च वादितम् – 'सत्यं वदामि' इति । द्रोणाचार्य उक्तवान् – श्वः पाठमिमं परिपूर्णं पठित्वा
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy