________________
ऽऽगन्तव्यम्' । द्वितीयदिने पाठ्यशालाऽऽरब्धा । द्रोणाचार्यः पाठं पृष्टवान् । सर्वे विद्यार्थिनः पाठं कृत्वाऽऽगता आसन् । अर्जुन-नकुल-सहदेव-दुर्योधन-दुःशासन-भीमसदृशा अपि पाठं क्षतिं विनाऽब्रुवन् । परं युधिष्ठिर उक्तवान् – 'गुरुदेव ! मया पाठ न कृतः' ।
द्रोणाचार्य उक्तवान् – 'कामं,श्वः पाठं कृत्वाऽऽगन्तव्यम्' । पञ्चषा दिवसा व्यतीताः । किन्तु युधिष्ठिरः प्रतिदिनमेवमेवोक्तवान् – 'गुरुदेव ! मयाऽद्यापि पाठो न शिक्षितः' । अतो द्रोणाचार्यः सक्रोधं कथितवान् - 'नितरां मूर्खसदृशः प्रतीयसे, एतावदपि न शिक्षसे ?' वर्गमध्ये हास्यं प्रासरत् । ___ तदा युधिष्ठिरः प्रत्युक्तवान् - "गुरुदेव ! अहमपि लज्जामनुभवामि, परं किं करोमि ? अहं सत्यं वक्तुं प्रयत्नं करोमि, तथाऽपि मया क्वचित् क्वचिदसत्यं कथ्यते। ततोऽहं कथं ब्रवीमि 'सत्यं वदामीति ?' युधिष्ठरस्य शुभ्रमन्तःकरणं दृष्ट्वा सर्वेषां मनसि तत्प्रति आदरः समुद्भूतः । यतो युधिष्ठिरो मूल् न, अपि तु 'यद्यहमसत्यं वदेयं, तर्हि पाठोऽयं परिपूर्णो न कथ्येत' इति तस्य हृदयस्पर्शिचिन्तनम् । जीवने प्राप्ता ज्ञानसंस्कारसद्गुणा एवमेवाऽऽचरणस्थाः कर्तव्या इति कथासन्देशो ज्ञातव्यः ।
(३) अज्ञानम् ___ स्वातन्त्र्यवीरस्य महात्ममोहनलालकरमचन्दगान्धीवर्यस्याऽयं प्रसङ्गः । एकदा महात्मगान्धीवर्यः कस्यचिनगरस्य प्रवासाय निर्गतवान् । स रेलयाने सामान्यवर्गे प्रवासमारब्धवान् । तस्य कतिपया अनुगामिनोऽपि तेन सह प्रवासं कुर्वन्ति स्म । रेलयानं गतिमदभवत् । इतो गान्धीवर्यः शयितवान् । एकस्मिन् रेलस्थानके रेलयानं स्थितम् ।
गान्धीवर्यस्याऽपरिचितस्तथाऽपि तस्य गुणानुरागी कश्चिद् ग्रामीणो रेलयानं प्रविष्टवान् । स सुप्तं गान्धीवर्यमुत्थाप्य कथितवान् – 'अहमपि मूल्यपत्रिकां गृहीत्वा प्रवासं करोमि । त्वं निद्राधीनः स्यास्तन्नोचितम्' । इत्युकत्वा स तस्य पार्श्व उपविश्य 'जय महात्मा गान्धी' इत्युक्तवान् । अन्ये प्रवासिनस्तस्य वचनं श्रुत्वा हसितवन्तः । गान्धीवर्यस्योपासकेनैव गान्धीवर्याय कष्टं दत्तम् । ___ स्तोकसमयानन्तरं गान्धीवर्यस्य स्थानकमागतम् । अनुयायिभिः सह गान्धीवर्यो रेलयानानिर्गतः । स्थानकं मानवसमुद्रेण सङ्कीर्णं जातम् । सर्वे जना महात्मनो दर्शनार्थं समागता आसन् । स ग्रामीणः प्रथमं विस्मयं पश्चाल्लज्जां प्राप्नोत् । यतः स्वयं यस्याऽनुरागी अस्ति, तस्मै महात्मगान्धीवर्यायैव स क्लेशदाताऽभूत् । स साश्रुलोचनं महात्मनः क्षमां याचितवान् चरणस्पर्शं च कृतवान् ।
क्वचिदेवं भवति – महामूल्यः पदार्थोऽस्माकं समीप एव वर्तेत तथाऽपि तस्य हर्षः - तस्योत्सवोऽस्मद्हृदये न भवेत् । यतो वयमज्ञाता स्याम यन्महामूल्यं द्रव्यमस्मत्समीपेऽस्तीति । यदि वयं सावधाना भवेम तदैवाऽस्मत्पाबें स्थितं किञ्चिदपि महामूल्यमद्भुतं ज्ञातुं शक्तिमन्तो भवेम ।
५८