SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (४) गुरोर्मूल्यम् तुर्कदेशस्येरानदेशस्य चेयं कथा । द्वयोदेशयोर्मध्ये कस्मादपि विवादकारणाद् भीषणं युद्धमारब्धम् । बहूनि दिनानि व्यतीतानि । इरानस्य सैन्यमतिबलवदासीदतस्तुर्कसेना पराजयाभिमुखा स्थिता । ___ अत्राऽन्तर इरानदेशीयो महान् सन्यासी फरीदुद्दीनअत्तारस्तुर्कसैन्येन निगृहीतः । तुर्कदेशस्य राजा सन्न्यासिन उपरि 'गुप्तचर' इति आक्षेपं कृतवान् । तस्य च मृत्युदण्डशिक्षां घोषितवान् । यतस्तुर्कराजा मन्यते स्म यद् इरानदेशीयाः सर्वेऽपि मम शत्रवः सन्तीति, स विरागी महात्माऽपि कथं न भवेत् ? ___ इरानदेशे सन्न्यासिफरीदुद्दीनअत्तारो बहुलोकप्रियो महात्माऽऽसीत् । इरानदेशीयजनेषु तत्कृतेऽपारं प्रेम वर्तते स्म । जनहृदये तस्य कृते बह्वी श्रद्धा विलसति स्म । ___ 'तुर्कदेशीयबलेनाऽस्माकं गुरुर्गृहीतः' इति समाचारो जले स्नेह इव समग्र इरानदेशे प्रासरत् । 'फरीदुद्दीनअत्तारस्य तुर्कदेशे मृत्युदण्डो घोषितः' इति सन्देशेन त्विरानदेशीया जना अतिदुःखमनुभूतवन्तः । इरानदेशस्य केचिद् धनिकजनाः सन्देशं प्रेषितवन्तः - 'वयस्माकं सर्वसमृद्धिं तुभ्यं दास्यामः । कृपयाऽस्माकं गुरुं मुञ्च' । परं, तुर्कस्य नृपस्तं प्रस्तावं न स्वीकृतवान् । इरानस्य सैनिका अपि सन्देशमकथयन् - 'अस्माकमसवो ग्रहीतव्याः, परं सन्न्यासी मोक्तव्यः' । परं, क्रूरेण तुर्कशासकेन तेषां वार्ता नाऽङ्गीकृता । इरानस्य राज्ञा स्वस्य विशेषसन्देशवाहकः प्रेषितः । तेन कथितम् – 'अस्माकं सम्पूर्णमिरानदेशं गृह्णातु । परमस्मत्प्रियं महात्मानं मुञ्चतु' । तुर्कराज्ञाऽऽश्चर्यमनुभूतम् । स किञ्चिदपि न ज्ञातवान् । परमिरानीयराज्ञः सन्देशेनाऽभिभूतः स किञ्चिदपि अगृहीत्वेरानीयसन्न्यासिनममुञ्चत् । स इरानस्य नृपं समगच्छत पृष्टवांश्च – 'समरेण तु वयमिरानराष्ट्र प्राप्तुमक्षमा आस्म । तर्हि एकस्य योगिनः कृते कथं राष्ट्रं त्यजसि स्म ?' इरानस्य राजा हृदयस्पृगुक्तवान् – 'भ्रातः ! सत्ता तु सायङ्कालसदृशी विनश्वरा । किन्तु स सन्न्यासी अस्माकं बहुमूल्यो गुरुः, तस्योपदेशः प्रभावश्चाऽविनश्वरः । यदि स महात्मा मृत्युमाप्नुयात् तर्हि इरानस्येतिहासः कलङ्कितो भवेत्, वयं सत्ताया अपि गुरोर्मूल्यं बृहद् मन्यामहे' । तुर्कसम्राट् स्तब्धोऽभवत् । स पुनः शीर्षमधूनयत् । .
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy