SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कथा तन्मयता - सा. तत्त्वनन्दिताश्रीः एको नृप आसीत् । तस्य राज्ये सर्वे जनाः सुखिन आसन् । स नृपः सुष्ठ रीत्या प्रजा रक्षति स्म । नृपः कलाविदासीत् । ततस्तस्य नगरे यदि कोऽपि कलाविदाऽऽगच्छेत् तदा नृपस्तस्य सन्मानं करोति स्म। एकदा एकस्सङ्गीतज्ञतत्राऽऽगच्छत् । स सुप्रसिद्ध आसीत् । तस्य नाम श्रुत्वा सर्वे जनाः सर्वाणि कार्याणि मुक्त्वा धावन्ते स्म । धावन्तस्तस्य सङ्गीतं श्रोतुमागच्छन्ति स्म । नृपः कथितवान् - "भवतः सङ्गीतमस्मान् श्रावयतु"। सङ्गीतज्ञोऽकथयत् – “राजन् ! निशायां सङ्गीतं श्रावयिष्यामि, किन्तु ममैको नियमोऽस्ति"। "हे सङ्गीतज्ञ ! भवतो नियमः कोऽस्ति ? तं नियमं कथयतु" - राजाऽवदत् । सङ्गीतज्ञः कथितवान् यत् – “मम सङ्गीतं शृण्वतः कस्याऽपि श्रोतुः शिरो यदि विधूयेत तर्हि तस्य शिरः छेदयिष्यामि"। एनं नियमं श्रुत्वा तत्र गन्तव्यं न वेति सर्वेऽचिन्तयन् । यदि सङ्गीतस्याऽऽह्लादेन शिरो धूयेत तर्हि मृत्युनिश्चितोऽस्ति । ईदृशेन भयेन बहुशो जनास्सङ्गीतं श्रोतुमेव नाऽऽगच्छन् । . ___ सङ्गीतकलाविदोऽल्पजनास्तत्र गताः । सङ्गीतकारो निशायां सङ्गीतं प्रारभत । अल्पक्षणैरेव वातावरणं सङ्गीतमयमभवत्, सर्वे जनाश्च सङ्गीतरसनिमग्ना अभवन् । अथ शिरो धवितुं रोद्धं भृशं कठिनमासीत् । अतो भयेन सङ्गीतसभायां स्थिताः केचन जना बहिर्निर्गताः । . अथ सङ्गीतकारो निजां सर्वां शक्तिं प्रयुज्याऽपूर्वं सङ्गीतमश्रावयत् । तस्येदृशं सङ्गीतं श्रुत्वा पञ्चषाणां श्रोतृणां शिरंसि विधूतानि । सङ्गीतकारः सङ्गीतस्याऽऽनन्दे निमग्न आसीत् किन्तु नृपो नियमस्य भङ्गं दृष्ट्वा सङ्गीतसभा स्थगितवान्। ___ द्वितीयदिने तान् जनान् राजसभामाहूय नृपोऽकथयत् - "भवन्तः नियमस्य भङ्गमकुरुत, ततो भवतां मृत्युदण्डो भवेत्" ।
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy