________________
स्थातुमिच्छेत् तर्हि वर्षमपि स्थीयताम् । वयं भवतः सानन्दं स्वागतं कुर्मः । यदा भवान् जिगमिषति तदा ममैवाऽश्वेन गन्तुं शक्ष्यति । यावच्च भवान् मे छदिषोऽधस्तादस्ति तावत् प्राणपणेनाऽपि भवन्तं सुरक्षितं रक्षिष्यामि " ।
गेलिकः परितो विलोकितवान् । विशालेऽपवरके स्थूलेषु तूलोपधानेषु शयित आसीत् सः । कुट्टिमं कुथेनाऽऽस्तृतमासीत् । कानिचन पित्तलमयानि पादफलकानि स्थापितान्यासन्, एकश्च पित्तलमयो दीपोऽपवरकभित्तीः प्रकाशयन्नासीत् । त्रिचतुरा मृण्मयदीपा अपि तैल- वर्तिकाभृता मन्दं मन्दं प्रकाशमाना आसन् । निकट एव रेडियोयन्त्रं स्थापितमासीत् यदुपरि तुर्कदेशीया जलकूपिका निहिताऽऽसीत् ।
"भवान् किमिदानीमेव भोजनं कुर्यादनन्तरं वा ?" स वृद्धो गेलिकं पृष्टवान् । “किञ्च, भवान् ख्रिस्तमतीयोऽस्ति । भोजनेन सह सुरापानं भवते रोचेत । किन्तु वयं हीस्लाममतीयाः सुरायाः स्पर्शमपि न कुर्मः । अतः क्षन्तव्या वयं यद् भोजनेन सह सुरां दातुं न शक्ताः । तथाऽपि मया भवत्कृते ब्राण्डीपानकं धूमवर्तिकाश्चाऽऽनेतुमादिष्टमेव भृत्यस्य । वयं तु धूमपानयन्त्रेणाऽनेन धूमपानं कुर्मः । यावच्च धूमवर्तिकाऽऽगच्छेत् तावदेनदुपयुनक्तु भवान्, अहमनुगृहीतो भवेयम् । अपि च, मम दुहितृभिर्भवतः प्रावारकमपि समीकृतमस्ति । तथा, भवत उपानहौ विदीर्णौ सन्तौ प्रक्षिप्तावस्माभिः । इदानीं भवान् मदीयाविमावुपानहौ परिधातुमर्हति । एतौ मोरक्कोदेशीयचर्मणा निर्वृतौ सर्वथा मृदुस्पर्शो स्तः । भवतः कृते नूतनं प्रावारकमपि मत्पुत्रीभिः स्यूतमस्ति । सज्जीकृते सति दास्यामि " ।
“मां गन्तुमनुमन्यताम् । अहं मम सेनाविभागेन सह सम्मिलितो भवितुमिच्छामि" । "यथा भवानिच्छति तथा भविष्यति” वृद्धो नत्वाऽवदत् । “कृपया प्रथमं भोजनं करोतु" । ततः स तालिकां वादितवान् । स्त्रियो भोजनभाजनानि गृहीत्वा तत्राऽऽगतवत्यः । गेलिकश्चोदरपूरं भोजनं कृतवान् । तस्य विनष्टा शक्तिः स्फूर्तिश्च प्रतिनिवृत्ते इव ।
“अद्यतनीया प्रत्यग्रा वार्ता का वा ?" स वृद्धं पृष्टवान् ।
"अस्मद्देशस्य राजा देशं त्यक्त्वा पलायितोऽस्ति, अल्बानियादेशश्च इटलीप्रशासनस्य हस्तगतोऽभवत्” ।
आनन्दातिरेकेण गेलिकः समुल्लसितोऽभवत् । तेन चिन्तितं " नूनमेतेन कारणेनैवेष वृद्धो ममेदृशं सत्कारादिकं कुर्वन्नस्ती"ति । अतः स सकृपमिव वृद्धाभिमुखं विलोकयन् अधिकारपूर्णस्वरेणाऽवदत् – “अहं सशपथं वदामि यद् भवता कृतः सत्कारोऽयं नैव विस्मरिष्यते” ।
-
"भवान् मम मन्तव्यं नाऽवागच्छत् किल । अहं त्वेतदेव विवक्षामि यद् भवानस्माकं प्राघूर्णकोऽहं च भवत आतिथ्यकार्यस्मि । मम दुःखं त्वेतावदेव यद् भवान् कश्चन इटलीदेशीयोऽस्ति । एतत्तु भवतो दौर्भाग्यम्” ।
५१