________________
जीवने या काऽपि प्रतिकूलता विपत्तिश्चाऽऽगच्छेत्, अनेकानि रूप्यकाणि विनष्टानि स्युः, परिवारजना द्रोहं कुर्युः, पुत्रोऽवमाननं कुर्यात्, तथाऽपि स्वकीयप्रसन्नताम्, आत्मीयानन्दं च यो न त्यजेत् स एव धर्मी ज्ञेयः । तस्य जीवने धर्मः परिणत इत्यनुभूयते । एतेषां जीवानां प्रसन्नताया आधारोऽस्ति धर्मबुद्धिः । धर्मी स एव य उद्विग्नो न भवेत् ।
धर्मी स एव य कुविकल्पादिकं न कुर्यात् ।
धर्मी तु सदा स्वस्थः प्रसन्नश्चैव भवेत् । यतस्स तु जानात्येव यत् सुखदुःखं तु चक्रवद् भ्राम्यति । अद्य दुःखमस्ति श्वः सुखमपि प्राप्येत, अद्य सुखमस्ति कालान्तरे दुःखमपि अनुभूयेत । ततः कथमुद्वेगः सन्तापश्च करणीयः ? प्रसन्नतैव सदाऽऽसेवनीया मयेति ।
प्राचीना कथाsस्ति । प्रजापालराजस्य पुत्री मयणासुन्दरी आसीत् । तया धर्मचर्चायां पितुः समक्षं कर्मसिद्धान्तः प्ररूपितः । पिताऽकथयत् - ममेच्छानुसारमेव सर्वमपि भवति । अहमिच्छामि यत् तदेव भवेत् कर्तव्यं चाऽपि । मया वाच भवतः सिद्धान्तो नोचितः । कर्म एव प्रधानम् । ततो जनकोऽति क्रुद्धो जातः । क्रोधाविष्टेन तेन राज्ञा स्वपुत्र्या मयणासुन्दर्या विवाहो जातकुष्ठरोगेण श्रीपालेन सह कृतः । किमप्यदत्त्वा गृहाद् निष्कासिता सा । समस्ते राज्ये हाहाकार: कोलाहलश्च सञ्जातः । सर्वेषामपि प्रजाजनानां चित्तेऽत्युद्वेगोऽजनि । सर्वेऽपि प्रजाजना आक्रन्दं कुर्वन्ति स्म ।
तथाऽपि सा तु श्रीपालेन सह सानन्दं निरगच्छत् । मनसि न क्लेशो नोद्वेगो न च रोषोऽस्ति केवलं प्रसन्नतैव प्रवर्तते । अत्र तस्याश्चित्ते धृष्टता निष्ठुरता च नाऽऽसीत्, किन्तु धर्मबुद्धिरासीत्, तत एवैतादृश्यां परिस्थित्यामपि प्रसन्नता संरक्षिता तया ।
-
चेतन ! त्वं चिन्तय । एका राजकन्याऽऽसीत् । तज्जीवने सुखस्य महोदधिः सदोच्छलन्नासीत् । किं नाम दुःखमित्यपि न श्रुतं तया । अद्यावधि सा यत्किमपि अभिलषति स्म तत्सर्वं क्षणमात्रेण प्राप्तुं समर्थाऽऽसीत् । आजीवनं याभिः सखीभिः सह व्यवहृतं ताः सख्योऽप्यद्य नाऽवदन् न चाऽहसन् । एवं कियद्दुःखमवमाननं च सोढं तया ? तथाऽपि तया स्वकीयप्रसन्नता स्वस्थता च विनाशिता नैव । तया सदैव प्रसन्नताया एव शरणं स्वीकृतं न चोद्विग्नतायाः शरणमुररीकृतम् ।
एषा धर्मबुद्धिरुच्यते । एतया धर्मबुद्धयैवाऽऽत्मकल्याणं भवति ।
भो ! जिनेश्वरस्य पूजाया आराधनायाश्च फलमस्ति मनःप्रसन्नता । उक्तं च मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ।
मनःप्रसन्नतया एव समाधिः प्राप्यते, ततो निर्वाणमवाप्यते । एवं मनः प्रसन्नता श्रेष्ठधर्मस्य मोक्षमार्गस्य च कारणरूपा भवति ।
अभ्यर्चनादर्हतां मनः प्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयस - मतो हि तत्पूजनं न्याय्यम् ॥
२०
-
(-तत्त्वार्थकारिकायाम्)