________________
बन्धो ! प्रतिकूलताऽऽपत्तिश्च परीक्षाऽस्ति । एतस्यां परिस्थित्यामेव प्रसन्नता स्वस्थता च रक्षणीया । शालायां पठन् बालको मासत्रयपर्यन्तं न पठति, केवलं क्रीडनमटनं च करोति, यदा परीक्षाऽऽगच्छेत्तदा स विचलितो भवति । एतादृश्येव स्थितिरस्माकमस्ति । यदा सर्वमप्यनुकूलं स्यात्, सुष्ठु सुष्ठु स्यात् तदा तु प्रसन्नाः सुखिनश्च भवेम । किन्तु यदा विपत्तिरापतेत् तदा तत्क्षणमेव वयं सर्वेऽपि विचलिता भवेम ।
त्वया व्यवसायस्य प्रारम्भः कृतः । तस्मिन् काले किञ्चिद्धनमासीत्, गच्छता कालेन व्यवसाये सफलता प्राप्ता त्वया, ततो बहूनि रूप्यकाणि संप्राप्तानि । एकदा व्यवसाये काचिद् हानिर्जाता, तदा चित्ते ग्लानिर्भवेत्, किन्तु पूर्वं किमपि नाऽऽसीत्, अद्य सर्वमप्यस्ति तथाऽपि अल्पहानौ मानसं व्यथितं भवति । एतन्नोचितमस्ति । पुद्गलजन्यसुखदुःखेन स्वस्थता प्रसन्नता च कथं विनाश्येत ?
सुखे हर्षस्य नाऽतिरेकः दुःखे च नोद्वेगः इत्येषा प्रसन्नता कथ्यते ।
महाभारतस्यैकः प्रसङ्गः स्मर्यते ।
दुर्योधनेन पाण्डवान् दुःखीकर्तुं बहवः प्रयत्नाः कृताः । तथाऽपि भाग्ययोगेन दुर्योधनरचितकपटाद् विमुक्ता भवन्ति स्म ते । प्रान्ते दुर्योधनेन शकुनिमातुलेन सह विमर्श: कृत: । तत्पश्चात् पाण्डवा द्यूतक्रीडनार्थं दुर्योधनेनाऽऽमन्त्रिताः । कपटनिपुणशकुनिमातुलसाहाय्येन दुर्योधनो विजयं प्राप्तवान् । पाण्डवाः पराजिता जाता: । संपत्ति: राज्यं द्रौपदी चेति सर्वमपि द्यूतक्रीडने युधिष्ठिरेण विनाशितम् । कुन्ताजनन्या द्रौपद्या च सह पञ्चाऽपि पाण्डवा वने गतवन्तः । तस्मिन् काले धृतराष्ट्रो विदुरः सञ्जयश्चेत्यादयः सर्वे युधिष्ठिरं कथयन्ति स्म - धर्मराज ! भवन्तः सर्वेऽपि प्रतिनिवृत्ता भवन्तु । किन्तु युधिष्ठिरेण तु सधैर्यं सानन्दं च सर्वमपि त्यक्तं, क्षणमात्रमपि ग्लानिर्नाऽनुभूता । एतन्नाम सत्त्वम् । एष एव परमो धर्मोऽस्ति । प्रतिकूलता विपत्तिश्चाऽपि स्वस्थभावेन प्रसन्नतया च स्वीकरणीया |
चेतन ! एतादृशो धर्मो यस्य जीवने परिणतोऽस्ति स न कदाऽपि बाह्यद्धि-सिद्धिमिच्छेत्, किन्तु एतत् सर्वमपि तुच्छं मन्यते । अत्र भौतिकर्द्धि-सिद्धिस्त्यजनीया, इति नैवोक्तं, किन्तु तदुपभोगकालेऽपि मनसि राग आदरश्च न करणीय इत्युक्तं च । परिणतधर्मः स जीवः संसारसुखे भौतिकसुखे च नाऽऽसक्तो भवति ।
देवेन्द्राः परमसुखभाजः सन्ति । सदाऽवर्णनीयसुखोदधिनिमग्ना भवन्ति । पञ्चानामपि विषयाणां सर्वमपि सुखमुपभोक्तुं समर्थाः सन्ति । तथाऽपि ते देवेन्द्रा यदा मेरुगिरौ तीर्थकरजन्माभिषेककाले स्नात्रमहोत्सवं विधातुं गच्छन्ति तदा ते देवसुखमपि तृणवन्मन्यन्ते । एवं धर्मपरिणता जीवाः बाह्यद्धिसिद्धि तुच्छां क्षणिकां च मत्वा त्यजन्ति ।
अन्ते, जीवनं नाम संघर्ष: । प्रतिक्षणं संघर्ष आगच्छत्येव । तस्मिन् काले धर्मबुद्धिमग्रेकृत्य व्यवहारः करणीयः, येन जीवनं सदा शान्तिमयं प्रसन्नतायुतं च व्यत्येति । इत शम् ।
२१