________________
बृहद्विद्वद्गोष्ठी
सङ्कलनम् - उपाध्यायश्रीयतीन्द्रविजयः
अथैकदा धारानगरीपति-भोजनृपतिः स्वसभीयशृङ्गारभूताखिलशास्त्रविचारविचक्षणां विपश्चित्पञ्चशतीमिमां पृच्छामपृच्छत् – यत्संसारे ये निर्गुणा नरास्ते कीदृशो ज्ञेयाः ? अथ तेषु विद्वच्छिरोमणिस्तिलकमञ्जर्याद्यनेकसंस्कृतप्राकृतग्रन्थप्रणेता धनपालनामा पण्डितो व्याहरत् -
येषां न विद्या न तपो न दानं, न चाऽपि शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूता, मनुष्यरूपेण मृगाश्चरन्ति ॥ __ अर्थात् - ये जना अस्यां जगत्यां जन्म धृत्वा न विद्यामधीयते, न तपस्तपस्यन्ति, न हीनदीनदुःखिजनानां साहाय्यं प्रददते, स्वाचारं न पालयन्ति, वीर्यरक्षां न विदधते, सहनशीलत्वादिगुणान्न दधते, निजधर्मे च न रमन्ते; ते खलु मनुष्याकारा मृगा एव बोध्याः । यथा हि मृगो घासादि घसित्वा स्वजीवनं निर्वहते, तथैव निर्गुणः पुमान् खादित्वा पीत्वा चाऽमूल्यं दुष्प्राप्यञ्च स्वजीवनं व्यर्थमेव गमयतीति । अथाऽस्य विदुषो वाचमाकाऽन्यः कश्चिद्विपश्चिन्मृगपक्षमाश्रित्याभ्यधात् – यदवाच्यं किल सर्वथा सभायां नीतिविरुद्धं वचः । निर्गुणिनो नरस्य मृगसादृश्यमिति स्वल्पशेमुषीणामेव कथनम् । यतो मृगेष्वपि भवन्ति भूयांसः प्रशस्या गुणाः । तथाहि -
स्वरे शीर्षं जने मांसं, त्वचं च ब्रह्मचारिणि ।
शृङ्गं योगीश्वरे दद्यां, मृतः स्त्रीषु सुलोचने ॥ मृगा एव सुगायनश्रावयितृभ्यो नृभ्यो निजशिरः, मांसादेभ्यो मांस, वर्णिभ्योऽजिनं, योगिभ्यः शृङ्गं ददति, किं बहुना, तच्चक्षुभिरेव स्त्रिय उपमीयन्तेऽत एव ता मृगाक्ष्योऽभिधीयन्ते । तथा मृगाणां कस्तूरिका सुकार्येषु समायाति, बलपुष्टये चाऽतीव साहाय्यं विधत्ते । अत एव बहूपदेशका व्याचक्षते चैवम् –
दुर्वाङ्कुरतृणाहारा, धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तमूर्खाणां, न पश्यन्ति मुखानि ये ॥ अतो न मृगतुल्या निर्गुणिनो नराः ।
२२