SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जगत्कर्तृत्वनिरसनविंशिका जिनं नमस्कृत्य जगद्विभुं परं दुरन्तदोषै रहितं हिते हितम् । जगद्विधातुः प्रकटं प्रपञ्चनं निराकरिष्ये नयशुद्धवर्त्मना ॥१॥ महेश्वरो रूपित उत्पथं स्थितैः परैर्यथा कर्तृतया जगत्कृते: । विचारणायां न च तीर्यते तथा निरूप्यते यत् कथितं मुनीश्वरैः ॥२॥ असौ सदा कालविशुद्ध एकक: सचेतनः सर्वगुणैरलङ्कृतः । समर्थनामर्थति विश्वसर्जने वृथा परैरित्थमुदीर्यते हहा ||३|| न चेतनः कोऽपि सनातनः स्वतः समस्तदोषैरनलङ्कृतः स्वयम् । उदाहृतिर्नैव विलोक्यते त्विति प्रतिष्ठिते नैव गुणज्ञसंसदि ||४|| विना निदानं न कृतिः करिष्यते, प्रयोजनं विश्वविधानजं च किम् । मनस्विताऽऽकर्षति नो मनः सता मिदं निमील्याऽक्षि विचार्यतां क्षणम् ॥५॥ १ - स्व.आ. श्रीविजयधर्मधुरन्धसूरयः
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy