SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रमाणमध्यक्षमहो ! महेश्वरे . न चाऽस्ति किञ्चिद् यदसावगोचरः । न लिङ्गमस्याऽव्यभिचारि दृश्यते- ऽनुमानवातेति गता विदूरतः ॥६॥ न चाऽस्ति सादृश्यमनन्यतुल्यके - न वेद वेदोऽपि विभोविवेचनाम् । इति प्रमाणैर्न च सिद्ध्यतीश्वरः कथं तथा श्रद्दधते सचेतनः ॥७॥ यदि श्रुतिस्तं प्रतिपादयेत् परं, श्रुतेः प्रमाणं न हि सुज्ञसम्मतम् । वचः प्रमाणं किल वक्तृनिर्भरं, श्रुतेर्विधाता न हि कोऽपि लक्ष्यते ॥८॥ अनादिसिद्धा यदि सा निरूप्यते तदाऽपि तन्नैव सुयुक्तिसंगतम् । अनादिसिद्ध वचसामुदीरणं श्रुतं न दृष्टं तदिदं विभाव्यताम् ॥९॥ विना मुखं नैव वचः प्रवर्तते मुखं कुतो भावि शरीरमन्तरा । ऋते ह्यदृष्टं न च दृष्टमङ्गकं हतं तथाऽदः परकीयशासनम् ॥१०॥ यदि स्वतन्त्रो भगवास्त्वयोच्यते स्वतन्त्रताया इह नाऽऽप्यते कला । अनेकदोषैः परिपूर्णमेतकं जगत् स्वतन्त्रो न कदाऽपि संसृजेत् ॥११॥ जिजीविषा कञ्चन बाधते भृशं मृतिं च कश्चित् त्वरितं समीहते । क्वचित् सुतानां विततिः सुदुर्भरा क्वचित् सुतार्थं विविधं प्रतप्यते ॥१२॥
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy