SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संस्कृतानुसर्जनम् धैर्यभ्रमणसमुन्नतपदपर्यन्तातिनाशितप्रान्तः । क्षणपुष्पिते ह्यशोके सविस्मयानां कृताश्चर्याः ॥२४॥ आश्चर्यसौकुमार्याः प्रियाद्भुतानां पुनः कृताश्चर्याः । पर्यस्तदीर्घसक्थिकमभिपर्याणितदयितकट्यः ।।२५।। पृथिवीगुरुशिष्येण सकलकलाकौशले पुनर्गुरुणा । वनिता वनस्पतिवने दृष्टा उपनतवनस्पतिना ॥२६॥ बाष्पार्द्रवदनबाष्पक्लिन्नाक्षीकृतप्रोषितमुल्लसितम् । त्रिंशदधिककार्षापणमूल्यं मधुरं तिलकपुष्पम् ॥२७॥ दुःखितपीडाहरणः किमु पाणिर्दक्षिणो ह्यनङ्गस्य । गौरीसेवकतीर्थं विकसितकुसुमो मधूकतरुः ॥२८॥ पादाहतो ह्यशोकः कूष्माण्डश्यामपक्ष्मलाक्षीभिः । कूष्माण्डीकुसुमसमः कुङ्कुमकिसलो बभूव पुनः ॥२९॥ नवरविरश्मिप्रसूनो दृष्टः स्मरतापकः पलाशागः । रोलम्बध्वनिविहितस्वागतप्रश्नो मधुश्रियो मधुरः ॥३०॥ गङ्गाजलशशिरोचिःशीतलमलिपटलनीलसर्वदलम् । अपराह्ने संफुल्लं पाटलमासीदधिकगन्धम् ॥३१॥ अस्खलितसुप्तनिश्चलसुकुमारोद्ग्रीवषट्चरणमुखम् । विरहिणिदुःखोत्पादमृत्युप्रायं स्फुटं कुरवम् ॥३२॥ गण्डकप्रियसम्मोहकशिरीषलग्ना ह्यलक्षि मधुपालिः । न्यासीकृतेव भल्ली विक्रमिकन्दर्पवीरेण ॥३३॥ स्वरभव्या वनभागे शब्दितविक्लवप्रवासिवधुवृन्दा । भद्रश्रिय इव भद्रं पठितुं लग्ना मधोः पिकी चित्रम् ॥३४॥ उद्वेजिका द्विजानामपि धृतवल्कलविशुद्धशीलानाम् । आबाल्यविरक्तानां व्यथयन्ती चित्तमर्माणि ॥३५॥ त्यक्त्वा धात्री बालाः सृततत्पुत्र्यः स्वयं च कुतुकेन । इन्दिन्दिरधात्रीमिव लवली प्रति धाविताः कुतुकात् ॥३६।। माकन्दकुञ्जकूजितकेन बुधानां मनोहरा सद्यः । स्मरकुण्ठितशरतेजनविचक्षणेव पिकी मत्ता ॥३७।। ७१
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy