________________
महिला (क्रन्दन्ती) आह रे दैव ! सम्प्रति क्व यामि ? कं साहाय्यं याचे । हा नाथ ! मामेकाकिनीं विहाय क्वप्रद्रुतोऽसि ?
सोमः (महिलां प्रति) भोः कथमयं मृतः ? (इति पृष्ट्वैव स्वमूर्खतामनुभवन्)
कश्चिद् असाध्यरोग आसीत् ? अन्यत् कारणं वा ? इत्यहं पृच्छामि ।
महिला अभद्र ! मृत्योरपि किमपि कारणं भवति ? अवसरे समुपस्थिते एव सर्वोऽपि म्रियते ।
सोमः युक्तमाह भवती । कुतस्समागताऽसि ?
महिला राजस्थानेऽलवरनाम नगरं श्रुतं न वा ? तत एवागताऽस्मि ।
सोमः किं तव सहयायिनो न वर्तन्ते ?
सम्मर्दादन्यतमः भोः ! किमेवं निरर्थकं पृच्छसि ? पत्युर्मरणात्स्फुटितहृदयां वराकीं महिलां समधिकतरं क्लेशयसि ! यदि दातुमिच्छसि किञ्चित् तर्हि दत्त्वा स्वमार्गमवलम्बस्व ।
महिलेयं
सोमः बन्धो ! कथमेवं दुर्मनायसे ? अहं प्रयोजनवशादेव सञ्चिनोमि समाचारसूत्राणि । पश्य, महाजनगृहोत्पन्ना प्रतीयते वेषभूषाभिरलङ्करणैश्च । नेयं यायावरभिक्षुकी !
अहमस्मि नगरनिगमस्याऽधिकारी । अत एवाऽस्याः परिचयसूत्रं विज्ञाय नगरनिगमपक्षतोऽस्य दाहसंस्कारप्रबन्धं कारयिष्यामि ।
सर्म्मदादपरः साधु साधु ! साधु चिन्तितं भवता ।
सोमः भो ! इदमस्माकं कर्तव्यम् । राजस्थानादागतोऽयं जनो निश्चप्रचमस्माकमतिथिरेव । स यदि दुर्भाग्यवशादिहैव पञ्चत्वं गतस्तर्हि अस्माभिरेवाऽस्या महिलायाः सहायैर्भवितव्यम् ।
(महिलां प्रति) तद् भगिनि ! अलं चिन्तया । सोऽहं साहाय्यं करिष्ये । नाऽसि त्वमेकाकिनी । किं तव पत्युर्नाम ?
महिला (वार्तालापं श्रुत्वा भीतभीता सती, आत्मगतम्) हा धातः ! किमिदानीं भविष्यति ! नित्यसफलेयं धनार्जनयोजनाऽद्य विफलायते । पतिं मृतमुद्घोष्य, अमृताञ्जनमहिम्नाऽश्रूणि च निपात्य प्रायेणाऽर्धहोरायामेव पञ्चाशद्रूप्यकाणि प्रसह्य स्वायत्तीकरोमि । यद्ययमधिकारी समधिकपृच्छां विधास्यति तर्हि सकलमपि षड्यन्त्रमुद्घाटितं स्यात् । तदेवं कथयिष्यामि ।
(प्रकाशम्) भो ! अस्माकं समाजे न पत्न्यः पत्युर्नाम स्वमुखेनोच्चारयन्ति ।
सोमः (सादरम्) आं ज्ञातम् ! इयं परम्परा तु वाराणस्यामत्राऽपि वर्तते । भवतु, मां प्रतीक्षस्व । अहं सत्वरं कार्यालयमुपेत्य, सर्वामप्यौपचारिकतां प्रपूर्य नगरनिगमभिषजा सहैव सवाहनमागच्छामि । दाहसंस्कारात्प्राक् मृत्यु - प्रमाणपत्रमनिवार्यम् । तत्सर्वं नगरनिगमभिषजा क्षणेनैव सम्पत्स्यते । अलं क्रन्दनेन । अहमागत एव । ( इति प्रतिष्ठते ।)
३९