________________
महिला - (सर्वान् सम्बोधयन्ती) हे भ्रातरः ! किमेवं पश्यथ ? किमुपरतं मानवं न दृष्टवन्तो भवन्तः ? यदि किञ्चित्साहाय्यं कर्तुमिच्छथ तर्हि वरम् । अन्यथा गच्छत। .
(द्वित्राः पञ्चषाश्च जना आस्तृतप्रछदोपरि रूप्यकाणि प्रक्षिपन्ति)
महिला - (कृतकरोदनं कुर्वती) भ्रातरः ! बहूपकृतं भवद्भिः । एतावता धनेन दाहसंस्कारप्रबन्धं करिष्ये । परमेश्वरो भवतां कल्याणं करोतु । भवतां बालवत्साः सुखिनस्स्युः ।
सम्मान्यतमः - भो अलं त्वरया। नगरनिगमाधिकारी सर्वमवलोक्य गतोऽस्ति । मन्येऽसौ शीघ्रमेव समायास्यति भिषजं वाहनञ्चाऽऽदाय ।
महिला – युक्तं युक्तमाहुर्भवन्तः । सम्प्रति गच्छन्तु भवन्तः श्रीमन्तः ! अहमत्रैव तमधिकारिणं प्रतीक्षिष्ये।
॥ द्वितीयं दृश्यम् ॥ ॥ नगरनिगमकार्यालये सान्ध्यकालिकोऽवकाशः । सर्वेऽप्यधिकारिणः कर्मचारिणश्च कारस्कूटरद्विचक्रिकादियानैर्यथायथं प्रस्थातुमुत्सुकाः दृश्यन्ते ।।
कृपानाथः (स्कूटरयानं पुरस्सारयन्) अरे सोम ! गृहमुपावर्तिष्यसे न वा ? एहि, पृष्ठवर्तिनीमासन्दीमुपविश।
(सोम उपविशति । उभौ प्रस्थितौ) कृपानाथः सोम ! गृहमुपावर्तितुं त्वरा वर्तते किम् ? सोमः न तावत् । किमर्थं पृच्छसि ?
कृपानाथः अद्य कन्यायाः कृते विद्यालयपरिधानानि क्रेतव्यानि । अत एव किञ्चिविलम्बेनाऽऽसादयिष्यावः । परन्त्वलं चिन्तया । त्वामहं गृहं यावत् प्रापयिष्यामि ।
सोमः युक्तं युक्तम् । न काऽपि चिन्ता कार्या । कृपानाथः (सोमं प्रति) सोम ! कथं मौनं भजसे? नाऽयं तव स्वभावः । अस्ति कश्चिद् विशेषः ?
सोमः किं कथयानि मित्र ! अद्य कार्यालयमागच्छता मया विचित्रमेव दृश्यं दृष्टम् । ततः प्रभृत्येवोन्मनस्कोऽस्मि जातः । कार्यालयेऽपि किञ्चित्कर्तुं नाऽशकम् । त्वामपि श्रावयामि तां विचित्रां घटनाम् ।
(इति यथाघटितं श्रावयति) कृपानाथः मुश्च तावदिमां कथाम् । एतत्सर्वं तु घटते एव । न केवलं भारतेऽपि तु निखिलेऽपि संसारे ।
सोमः (अकस्मादेव राजमार्ग निकषा जनसम्म सम्प्रेक्ष्य) कृपानाथ ! मित्र ! क्षणं यावत्तिष्ठ । कीदृशोऽयं जनसम्मर्दः ? मन्ये सैव महिलाऽत्राऽपि वर्तते ।