SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तेनेदं व्यरचि प्रगलभवचसा भट्टाकलङ्केन तद्वृत्तेः साधुनिबन्धनं च मकरन्दाख्यं समाख्यास्पदम् ॥ अकलङ्कोत्तमसूक्तिसारसुमनोवृन्दावलम्बं समर्पकसवृत्तिसुयुक्तिसौरभभरं सर्वज्ञपादार्पितम् । सुकवीन्द्रभ्रमरप्रमोदजनकं तन्त्रं शुभं मञ्जरीमकरन्दाख्यमिदं तरां विजयतामाचन्द्रतारार्णवम् ॥ शकवर्षे रसनेत्रबाणशशिसंख्येऽब्दे तपोमासि शोभकृति श्रीसितपञ्चमीगुरुदिने लग्ने घटे पौषभे । अकलङ्काह्वययोगिशिष्यतिलको ग्रन्थं सतां मञ्जरीमकरन्दाख्यमिदं मतं व्यरचयं भट्टाकलङ्को मुनिः ।। इति भट्टाकलङ्कदेवविरचितायां स्वोपज्ञशब्दानुशासनवृत्तेः भाषामञ्जर्याष्टीकायां मञ्जरीमकरन्दसमाख्यायां चतुर्थः पादः । परिसमाप्तश्चैष ग्रन्थ इति । ____एतेभ्यो ज्ञायते यद् भट्टाकलङ्क एव कर्णाटकशब्दानुशासनस्य सूत्राणि, भाषामञ्जर्याख्यां तदृत्तिं, मञ्जरीमकरन्दाख्यां तट्टीकां च व्यरचयदिति । अपि च ग्रन्थसमाप्तिकालश्च ग्रन्थका सूचितः । रसाः षट्, नेत्रे द्वे, बाणाः पञ्च, शशी एकः । अङ्कानां वामतो गतिरिति न्यायेन अत्र सूचितं शकवर्षं १५२६ इति ज्ञायते । तच्च क्रैस्तवशकानुसारेण १६०४ इति (1604 A.D.) ज्ञायते । भट्टाकलङ्कः कर्णाटदेशे जात इत्येतदनुच्यमानमपि स्पष्टमेव । कथमन्यथा तस्य तस्यां भाषायां निष्कृष्टं ज्ञानं प्रेम च स्याताम् । वदति स एव विस्तरेण पीठिकाभागे यथा - ___ "शब्दानुशासनं हि प्रस्तुतम् । तत्र चाऽनुशासनविषयभूताः शब्दाः कार्णाटिका एव । ते च संस्कृतशब्दवत् सकलदेशप्रसिद्धाः सकलशास्त्रोपयोगितया सकलमहाजनपरिग्राह्याश्च न भवन्ति, भाषाविषयत्वात् । भाषायां च पामराणाम् एवाऽधिकारो न पण्डितानाम् इति नैते अनुशास्याः प्रयोगानर्हत्वादिति केषाञ्चित् संस्कृताग्रहग्रहग्रस्तानां पण्डितम्मन्यानां मनसि प्रख्याताम् अन्यथाख्याति प्रत्याख्यातुम् एतदेव विशेषणम् उपवर्णितवान् ग्रन्थकारः" । भट्टाकलङ्को नानाव्याकरणान्यधीत्य कर्णाटकशब्दानुशासनं प्रणीतवान् इत्यत्र तदीयसूत्रवार्तिकादीनां तेन पुनः पुनरुदाह्रियमाणत्वम् एव प्रमाणम् । पाणिनि-शाकटायन-कातन्त्र-जैनेन्द्र-सारस्वतसूत्राणि भट्टाकलङ्कस्तत्र तत्र समुदाहरति । महाभाष्यस्य, पाणिनीयशिक्षायाः, अमोघवृत्तेः न्यासस्य च वाक्यानि च स उदाहृतवान् । एवमस्य ज्ञानं विशालम् इत्यत्र नैव संशयः । एवं सूत्रोदाहरणत्वेन दत्तानि पद्यानि भट्टाकलङ्केन नानाग्रन्थेभ्य उद्धृतानि । तेषां कन्नडग्रन्थानां नामानीमानि - १४
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy