SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अथ काष्ठव्यापारो यद्यपि सर्वथाऽधमः, तथाऽप्ययं सर्वथाऽत्याज्य एवेति मनसि निधाय सुविद्यादेवी पुनरुवाच – 'अस्मिन् काष्ठराशौ तु स्वल्पो लाभः काष्ठविक्रेतारश्च 'काष्ठविक्रयाः ' एवाऽभिधीयन्ते । अत एव कतिपया सूत्रधारा रक्षितव्यास्तैश्च शालनिम्बप्रभृतिपादपानां काष्ठैर्मञ्जूषादिवस्तूनि निर्माप्याणि । रूप्यकाणां च यावतामावश्यकता भवेत्तावन्ति कार्यालयाद् ऋणरूपेण ग्राह्याणि । नदीतीरस्थमहावनाद् सुकाष्ठानि च्छित्त्वा छित्त्वा समानाययितव्यानि येषां च काष्ठानां वस्तून्यपि शोभनानि भवेयुः' इति विविच्य कस्माच्चिच्छ्रेष्ठिनो रूप्यकसहस्रद्वयीमृणरूपेणाऽगृह्णात् । ततोऽमीभी रूप्यकैः काष्ठानि क्रीत्वा तानि वस्तूनि निर्मापितानि यानि द्विगुणचतुर्गुणमूल्येन विक्रीतानि । इतः स काष्ठविक्रेता वस्तूनि द्विगणमूल्येन विक्रीय तत्रत्यानि च बहुविधानि वस्तूनि समानिनाय, यानि सहसैव द्विगुणचतुर्गुणेन विक्रीतानि । यानि च रूप्यकाणि जनेभ्य ऋणत्वेन गृहीतानि तानि सवृद्धि तेभ्यः समर्प्यऽवशिष्टानि स्वगृहे रक्षितानि । अथ स्वल्पैरेवाऽहोभिर्दशविंशतिसहस्ररूप्यकाणि गृहे सगृहीतानि । ततोऽन्यतो ग्रहणस्याऽऽवश्यकता नाऽभवत् । किञ्चित्कालानन्तर' मिदानीं स्वरूप्यकैर्व्यवहारो न व्यवहर्त्तव्यः, एकदेत्थमेव पुनरपि निजधर्मपिता देशान्तरे प्रेष्यः, यदा भूयोऽपि लाभः स्यात्तदा तत्पश्चान्न कथङ्कारमप्यन्यतो रूप्यकाणि ग्रहीष्ये' इति सुविद्या सम्यग् विचार्य मासद्वयानन्तरं संलेखकेन सार्धं स्वपितरं पूर्ववत् बहुविधानि वस्तूनि सम्भृत्य संप्रेषयामास । ततोऽस्य श्रेष्ठसाधुकारेषु महती प्रतिष्ठा समजनि, कथनमन्तरैव सर्वेऽनेकविधानि वस्तूनि यानेषु संबभ्रुः । इतः कस्मिश्चिद् द्विजकुले निजधर्मभ्रात्रोर्विवाहाय संबन्धं संयोज्य तौ विवाहयामास । यदाऽस्या काष्ठविक्रेता धर्मपिताविदेशतो निवृत्तस्तदा प्रथमतोऽप्यधिको लाभो बोभवीति स्मः । ततः कतिपयपत्तनेषु महत्यो विपणिका उद्घाटिताः, सुविद्याप्रभावतश्चाऽतीवप्रख्यातः शनकैर्जगच्छ्रेष्ठिपदवीविभूषितो बोभवामास । अथाऽवसरज्ञा सुविद्या निजहृदि ‘अवसरोऽसौ राज्ञो निजवचनप्रख्यापनाय यन्मद्वचसः सत्यत्वमसत्यत्वं वे'तीत्थं बहुधा विविच्य निजधर्मपितरं बभाण - 'इदानीं भवान् लोके 'जगच्छ्रेष्ठी' इति निगद्यते लोकैः । देशदेशान्तरस्य चाऽलभ्यानि वस्तूनि भवद्गृहे समायन्ते । कानिचिच्छोभनानि वस्तून्यादाय राज्ञे चोपायनीकर्त्तव्यानि यतोऽयं स्वीयो धर्मः यत्स्वदेशाधिपः प्रसाद्योऽस्मकाभिरिति । एतावत्कालपर्यन्तं वयं कस्मिश्चिदपि विषयेऽगण्या आस्म, किञ्चेदानीं महान्तोऽभूम । अतोऽमुकानमुकान् कायकर्तृन् मिलतु भवान् तेषां सङ्गत्यैव राजमेलनमपि भावि' । - अथेयं राज्ञी सर्वराजनियमज्ञात्री चाऽऽसीत्, अतः सा सुविद्या महिषी सर्वं राजनियमं संबोध्य कथंचित्तं राजान्तिकं प्रेषयामास । यथा सुविद्यया पूर्वं बोधितस्तथैव राजानं मिलित्वा पश्चात्स्वभवनं प्रतिनिवृत्त्य सर्ववृत्तान्तं तामाह । ततो गतायां कियत्यां वेलायां तया पुनरपि स प्रेरितः, इत्थं कतिपयवारं तं सोऽमिलत्, येनाऽखिलवृत्तान्तज्ञो भूत्वा राज्ञोऽधिकं परिचितो जातः । ततो भूयोऽपि सा पितरमवादीत् - यदेकवारं राजानं स्वगृहे भोजय । वक्तव्यश्च स भूपस्त्वया – यदनुचरस्याऽपि गृहं कदाचित् गत्वा सुशोभयितव्यं, पादपद्मेन च पवित्रितव्यम् । इति निवेदिते काष्ठविक्रेत्रा भूयो भूयोऽपि, . स्वीकृत्य तद्वचोऽमुकदिने समायास्यामीति तं संव्याजहार राजा । ततः सोऽपि गृहमागत्य सुविद्यादेवीं यथावदुवाच। ३३
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy