SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः अष्टात्रिंशी शाखा पठिता । प्रास्ताविके भाषा प्रतिवाक्यं हंससञ्चारं चरति । तत्र च राष्ट्रीयं चारित्र्यम् अधिकृत्य यदुक्तं तत्तु चिन्तोद्दीपकम् एव । मुनिरम्याङ्गरत्नविजयानां "जीवनमौक्तिकात्" धर्मलाभः अभवत् । किन्तु "आर्यसत्यानां पर्यालोचनम्" पण्डितोचितत्वात् कठिनमिव अनुभूतम् । मुनिधर्मकीर्तिविजयानां पत्रं पाठं पाठम् अन्तिमभागस्य "सम्मीलने नयनयोर्न हि किञ्चिदस्ति" इति पङ्क्तिर्यदा प्राप्ता तदाऽहमपि चकितः अभवं राजसमानम् । संस्कृतवाणीसेवारतेन डा० विश्वासेन "अर्धजरती" इति कथासङ्ग्रहः रचितः, संस्कृतभारत्या प्रकाशितश्चेत्येषः विषयः मया सर्वप्रथम नन्दनवनकल्पतरुपत्रिकातः एव ज्ञातः । शाखायाम् अन्याः कथाः कविताः च अत्यन्तं रुचिराः । मर्म गभीरं, हास्यरचनाः च उत्तमाः । संस्कृतानुवादयुक्तम् आचार्याणां प्राकृतकाव्यम् आस्वादनीयं चासीत् । इति भवदीयः विनीतविधेयः एम्. ए. रवीन्द्रन् M. A. Ravindran Palghat-678012 (Kerala)
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy