SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् जपानदेशीयः प्रधानमन्त्री शिन्झो-अबे कतिचिद्दिनपूर्वमेव भारतदेशं तत्राऽपि चाऽहमदाबादनगरं समागत आसीत् । यद्यपि तस्याऽऽगमनेनोभयोरपि देशयोर्बहूनि राजकीय-सामाजिकार्थिक-संरक्षणादिसम्बन्धीनि प्रयोजनानि सिद्धान्येव, तथाऽप्यत्र तान्यधिकृत्य न किमपि चिन्तनं कृतम् । अत्र त्वन्यानेव कांश्चन बिन्दूनधिकृत्य किञ्चन चिन्तयामः । ___प्रथमं तावत्, तेनोक्तं स्वीये प्रवचने यत् - "यदा जपानदेशोपरि द्वितीये विश्वयुद्धे अण्वस्त्रं प्रक्षिप्तं तदा समग्रोऽपि देशः सर्वथा हताशश्चिन्तामग्नः क्षुब्धश्चाऽऽसीत् । तस्यां स्थितौ च भारतदेशात् पण्डितजवाहरलाल-नेहरुः समागतो जपानदेशे, अस्मांश्चाऽऽश्वासनमददाद् यत् – 'सर्वथा निराशा मा भूत !! भारतदेशो भवतः सहकारार्थं सदाऽपि सज्जोऽस्ति' । नेहरुवर्यस्येमानि वचनान्यस्मद्धृदयेषु श्रद्धासङ्कल्पोत्साहानां बलमपूरयन् वयं च तद्बलेनाऽचिरादेव सर्वेष्वपि क्षेत्रेषु समुन्नता जाताः । एतदर्थं च वयं भारतदेशस्य कार्तश्यं वहामः, भारतदेशाय च यत् किमपि साहाय्यं प्रदातुं सिद्धाः स्मः" । ___द्वितीयं च, भारतदेशे अहमदाबादनगरादारभ्य मुम्बईमहानगरं यावत् "बुलेट-रेल-यान"निर्माणकृते समग्रमपि समायोजनं जपानदेशीयास्तज्ज्ञाः करिष्यन्तीति तदर्थं च लक्षकोटिरूप्यकाणामृणमपि दास्यति जपानदेशः। एतादृशोऽन्येऽपि बहवो विषयाः सन्ति येषु जपानदेशो भारतदेशस्य साहाय्यमपि करोति भारतदेशादतिशयितोऽप्यस्ति । अत्रैतत् तु सर्वथा न विस्मर्तव्यं यद् - जपानदेशस्य क्षेत्रफलं तद्गतजनानां सङ्ख्या च भारतदेशस्यैकं किञ्चन मध्यमपरिमाणकं राज्यमपि सर्वथा नाऽतिशेते । एवंस्थितेऽपि विश्वस्याऽपि प्रथमेषु पञ्चसु समृद्धतमदेशेषु तन्नामाङ्कनमस्ति । एतत् सर्वं कुतोऽभवदिति चिन्तनीयमस्माभिः । सम्यग्विचारणेन त्वेकमेव तथ्यं प्रकटीभवति - राष्ट्रीयं चारित्र्यम् । जपानदेशीयजनानां नैतिकता, शालीनता, मूल्यप्रतिबद्धता, अप्रमत्तता, राष्ट्रभक्तिरित्यादयः सद्गुणास्तान् सर्वांश्चाऽतिरिच्य स्थिता नम्रता - इत्येतत् सर्वमेव तद्राष्ट्रस्योन्नतिकारकं परिबलमस्ति । यद्यपि वयं बहुषु विषयेषु देशानामेतेषामविचारितमनुकरणं कुर्म एव, तथाऽपि यदि वयं भारतदेशमुन्नतं समृद्धं च द्रष्टुं कर्तुं चेच्छेम तदा खल्वस्माभिरेतेषां गुणानामाहत्य च राष्ट्रीय-चारित्र्यस्याऽनुकरणं कर्तव्यम् । किं वयमेतदर्थं सज्जाः स्मो वा ? कीर्तित्रयी कार्तिकशुक्ला प्रतिपत्, वि.सं. २०७४ श्रीस्तम्भतीर्थनगरम्
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy