SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ किञ्च यात्रादिकार्येषु खरध्वनिर्मङ्गलहेतुः । यः कश्चन पुमान् तद्ध्वनिशकुनं विमृश्य कार्यं विधत्ते, स स्वकार्ये साफल्यं लभतेऽतो निर्गुणिनो नैव रासभतुलना । श्रुत्वैवं धनपालोऽपि निर्गुणान् ‘मनुष्यरूपेण भवन्ति चोष्ट्राः' इत्यवादीत् । प्रतिवादी उष्ट्र मण्डयन्नाह - वपुर्विषमसंस्थानं, कर्णज्वरकरो रवः । करभस्याऽऽशुगत्यैव, छादिता दोषसंहतिः ॥ एकस्यां घटिकायां, योजनगामी सदा नृपतिमान्यः । भारोद्वहनसमर्थः, कथं समो निर्गुणैः सार्धम् ॥ किञ्च जगति शीघ्रगमनमप्युत्तमो गुणः । यो हि गमनालसस्तस्य कार्यमपि शिथिलम् । यद्यपि सर्वत्र सवैरेव चलनैः कार्य क्रियते, तथाऽपि प्रतिकार्येषु भूरिशः शीघ्रगमनस्यैवाऽऽवश्यकत्वम् । किञ्चोष्ट्रोऽत्तुमपि स्वामिनं न बहु पीडयति, सामान्येनैव भोजनेन सन्तुष्यति । निर्गुणिनो नरादुष्ट्रा लक्षतोऽधिकाः । अथ धनपालो गुणरिक्तान् ‘मनुष्यरूपेण भवन्ति काकाः' इत्यगादीत् । प्रतिवादी काकमपि मण्डयन्नाह प्रियं दूरगतं गेहे, प्राप्तं जानाति तत्क्षणात् । न विश्वसिति कञ्चाऽपि, काले चापल्यकारकः ॥ काचन युवतिरेकं काकं जाम्बूनदपञ्जरे प्रक्षिप्य निजगृहाङ्गणस्थद्रौ प्रोच्चिक्षेप । अथ कदाचित्तस्याः सखी पर्यपृच्छत् - यल्लोके शुकसारिकादिपक्षिणस्तु बहवो जनाः परिपालयन्ति, किन्तु न कोऽपि काकं, नहि क्षुद्रपक्षिभिः गृहशोभा । अथो युवतिः समुत्ततार - अत्रस्थः सखि ! लक्षयोजनगतस्याऽपि प्रियस्याऽऽगमे, वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः । मत्कान्तस्य वियोगरूपदहनज्वालावलेश्चन्दनं, काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ अर्थात् - अयं काको लक्षयोजनगतस्याऽपि मम भर्तुरागमनं जानाति, आख्याति च । अतः शुकादीन् धिक्, यतोऽमी शुकादयः पठनचतुरा न तु प्रियवार्ताख्यानकाः । अयं काको मम भर्तुर्वियोगाग्निज्वालायै चन्दनसमः, यथा घर्मार्तं पुरुषं चन्दनं स्वशैत्येन शीतयति, तथैवाऽयं काको मद्भर्तृवियोगाग्निजायमानबहुशोकदुखार्ती मां भर्तृशुभाख्यानकेन शीतलीकुरुते । अत एव कारणान्मयाऽसौ काकः स्वर्णमये पञ्जरे क्षिप्त इति ।
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy