SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अथ धनपालो विज्ञतमः पुनरपि निर्गुणान् 'मनुष्यरूपेण हि ताम्रचूडा:' इत्यभिधत्ते स्म । प्रतिक्ष तानपि प्रशंसयन्नाह – नैतदपि भवत्कथनं रुचिकरम्, यतस्तेऽपि सूपदेशकार्यं कुर्वते, ते पश्चिमायां रात्रौ द्विद्विचतुश्चतुर्घटिकानन्तरं स्वग्रीवामुच्चैः कुर्वाणा वदन्ति - - संसारे बहुरोगशोकजनके सारे महानर्थदे, तिर्यक्त्वामरनारकादिगतिषु श्रेष्ठं तथा दुर्लभम् । भो लोकाः ! सुकृतोद्यता भवत वो लब्धं भवं मानुषं, मोहान्धाः प्रसरत्प्रमादवशतो माऽऽहार्य मा हार्यताम् ॥ किञ्च ताम्रचूडवचनं चाऽऽकर्ण्य केचन भगवद्ध्यानलीनाः केचन निजविद्याभ्यासलीनाः केचित्प्रभुभजनलीना निजं निजं मानुषं जनुः सार्थयन्ति । अत एवाऽस्मिन् जगति ताम्रचूडोऽप्युपदेशकः । सोऽहर्निशं मनुजान् चेतयति - यद् भो लोकाः ! आलस्यं त्यक्त्वा सदोद्यमिनो भवत, प्राप्तकालञ्च सफलयत । ये पुमांसः प्राप्ताऽवसरं समुपेक्षन्ते, तेतून्नतेरुच्चसिंहासने स्थातुमनर्हा एव । गते चाऽवसरे ते राज्ञीवत् पश्चात्तापभाजो भवन्तीति न सन्देहः । तथाहि - 1 अथाऽऽसीत् कस्यचिद्राज्ञः षष्ट्यधिकस्त्रीशतत्रयी । ततो राजा देशान्तरं गत्वा यस्मिंश्च दिने प्रतिनिवृत्य गृहमागमत्, तद्दिने सर्वपाश्चात्याया राज्ञ्या वार आसीत् । अतः स्वदासीः संबोध्य साऽचकथत् - यदहं शये, यदा हि राजाऽऽगच्छेत्तदा त्वं मां जागरयेः । अथ यदा नृपतिराजगाम तदा ता दास्यो भयं लात्वा तां राज्ञीं नाऽजागरयन् । राजा तु जगाम, राज्ञी चोत्थायाऽपृच्छत् किं राजा समाजगाम ? ताश्च प्रोचुः 'ओम्', किञ्च, वयं सभया भवन्तीं नाऽजागरयाम । सा तु राज्ञी बहु रुरोद पश्चात्तताप च । - इत्थमेव ये प्राप्तसमयं गमयन्ति, ते पश्चात्तापभाजो भवन्ति । ये दुर्लभं मनुष्यजन्म लब्ध्वा धर्मं विनैव भवं गमयन्ति, ते चतुरशीतिलक्षयोनिषु भ्राम्यन्तोऽपि नैतादृशमवसरं लभन्ते । अतः सर्वोपाधिं त्यक्त्वा मुख्यत्वेन धर्म एव कर्त्तव्यः, क्षणमात्रमपि निष्फलं न गमयितव्यमित्येव पुंसो मुख्यं कर्म धर्मश्च । अतो न निर्गुणानां ताम्रचूडसाम्यम् । I अथ कश्चिदवसरज्ञो विपश्चिदुपर्युक्तमनुमोदयन्नाह - यद् सत्यमेव विदुषो वचः । यत 'आहारनिद्राभयमैथुनञ्च, सामान्यमेतत्पशुपक्षिनृणाम्' । किञ्च मनुष्यापेक्षयाऽपि पशुपक्षिणश्चेताः क्रियाः समर्यादं सावधानतया समाचरन्तीति । तथाहि - तेऽखाद्यं न खादन्ति, अपेयं न पिबन्ति, स्वल्पनिद्रालवो भवन्ति, भयजनकगहनारण्येष्वपि निर्भयाः समयं व्यत्ययन्ते, अखिलवर्षे च द्वित्रिचतुर्वारमेव कामं कामयन्ते । अत एव तेषु सुस्वास्थ्यं नानाविधप्रशस्यगुणाश्चोत्पद्यन्ते । अतः पशुपक्षिणोऽपि संसारे गुणिनश्चोपकारकाश्च वर्त्तन्ते । इदं च पूर्वोक्तसंवाद एव सम्यक् सूचयति । अतो मनुष्यैः स्वमनुष्यत्वसम्पादनाय पशुपक्षिभ्योऽपीमे अवश्यं शिक्ष्या एव । यथा - २५
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy