________________
प्रभूतमल्पकार्यं वा, यो नरः कर्तुमिच्छति । सर्वारम्भेण तत्कुर्यात्, सिंहादेकं प्रकीर्तितम् ॥ सर्वेन्द्रियाणि संयम्य, बकवत्पतितो जनः । कालदेशोपपन्नानि, सर्वकार्याणि साधयेत् ॥ बह्वाशी स्वल्पसन्तुष्टः, सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च, ज्ञातव्या षट् शुनो गुणाः ॥ अविश्रामं वहेद्भारं, शीतोष्णं च न विन्दति । ससन्तोषस्तथा नित्यं, त्रीणि शिक्षेत गर्दभात् ॥ गूढमैथुनधाष्टर्ये च, काले चाऽऽलयसंग्रहम् । अप्रमादमनालस्यं, पञ्च शिक्षेच्च वायसात् ॥ युद्धं च प्रातरुत्थानं, भोजनं सह बन्धुभिः । स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात् ॥
अथ पुनरपि धनपालेनाऽवाचि – यद्येवं तर्हि 'मनुष्यरूपाः खलु मक्षिकाः स्युः' इत्येव स्वीक्रियताम् । श्रुत्वैवं वादिनापि मक्षिकापक्षमाश्रित्याऽभ्यधायि -
सर्वेषां हस्तयुक्त्यैव; जनानां बोधयत्यसौ ।
ये धर्मं नो करिष्यन्ति, घर्षयिष्यन्ति ते करौ ॥ किञ्च मनुष्या निर्गुणा उपकारशून्या, मक्षिकास्तु सर्वेषामुपकारकर्व्यः । तदीयमधुनोऽमृतवन्माधुर्यम् । तच्च रोगं विनाशयति, बलञ्च वर्द्धयति । मक्षिका अपि स्वहस्तघर्षणयुक्त्यैव जनान् बोधयन्ति - यद् ये पुमांसो लक्ष्मी केवलं सञ्चयन्त्येव, न परोपकाराय न च स्वभोगाय व्ययीकुर्वते, ते चाऽन्तकाले वयमिव हस्तौ घर्षयन्त एवाऽस्माद् भवाद् मृत्वा भवान्तरेऽपि रिक्तहस्ता एवाऽवशिष्यन्ते । अतः कृपणा मा भूत, यत्किमपि लब्धं तत् परोपकराय निजभोगाय च व्ययीकुरुत, सद्गुणोपार्जनाय च सोद्यमा भवत । यतश्चैकेकगुणमन्तराऽपि पुमान् सर्वत्राऽनादरदृष्टयैव विलोक्यते । तथा चोक्तम् -
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः, कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना । योद्धा शौर्यविना तपो व्रतविना छन्दोविना गायनं,
भ्राता स्नेहविना नरो विभुविना शीघ्रं बुधैस्त्यज्यते ॥ अतो भो जनाः ! इदं सम्यक्तया निबोधत - यद् शरीरेण सह रोगः, सम्पत्त्या विपत्तिः, जन्मना मृत्युः, संयोगेन वियोगः, सुखेन दुःखम्, तारुण्येन च वार्धक्यम्ः, इत्थं संसारे विविधा विनाशकारका हेतवो विद्यन्ते । एवंभूतायां दशायां यत्किमपि साधु कार्यं करिष्यथ, तदेव सार्धमायास्यतीति निश्चयः । अतो न गुणहीनाः पुरुषा मक्षिकासमानाः ।
अथ पुनरपि पण्डितो बभाण – यद्येवं तर्हि 'मनुष्यरूपेण भवन्ति वृक्षाः' इत्यवगन्तव्यम् । वादी तु तदपि मण्डयन्नाह -
छायां कुर्वन्ति ते लोके, ददते फलपुष्पकम् । पक्षिणां च सदाऽऽधाराः, गृहादीनां च हेतवः ॥
२६