________________
कथा
अतिथिसत्कारः
आङ्ग्लभाषायां-मूललेखकः - गैराल्ड-कर्शः ___ संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः
एकं भयाक्रान्तं चीत्कारं कृत्वा गेलिकः पृथिव्यां पतितः । सर्वथा निर्जनं सुप्रशान्तं च वन्यं वातावरणं विदारयन्त्येका गुलिका सणसणायमाना तत्पार्श्व एव पतित्वा शीतीभूताऽऽसीत्, अग्नितप्ता चुल्लिका जलेन सिक्ता ननु ! तस्य मार्गदर्शकस्य वक्षो भित्त्वा सा गुलिका मृत्युमाहूतवत्यासीत् । मार्गदर्शकस्तु तत्समक्षमेव भूमौ पतितस्य मत्स्यस्येव स्फोरं स्फोरं मृत आसीत् । ____कतिपयक्षणानन्तरं पुनरपि पर्वतीयशिलासु गुलिकाप्रक्षेपध्वनिः सप्रतिध्वनिः श्रुतस्तेन । दूरवीक्षणयन्त्रेण निरीक्षमाणोऽपि स न कमपि साक्षात्कृतवान् । सोऽनुमितवान् यत् कोऽपि क्रोशार्धात् रायफलास्त्रं प्रयुञ्जानोऽस्तीति । एतावता समीपस्थाया वनघटायाः कश्चन पक्षी उड्डयमानो दृष्टस्तेन । ततश्च मृत्युभयादापादमस्तकं प्रकम्पितः सः ।
सन्ध्याकालो हीतोऽपि घण्टात्रयानन्तरं भविता । तावत् तु तेन प्रतीक्षणीयमेव । तारकाणां क्षीणे आलोके एव सोऽग्रे गमिष्यति । किन्तु, तस्य मार्गदर्शको यदा दिवाऽपि मार्गभ्रष्टोऽभवत् तदा स रात्रौ घनान्धकारेऽस्मिन्नपरिचिते प्रदेशे कथमग्रे गमिष्यति ? - शिलामध्ये शयानः स चिन्तयन्नासीत् । ततः सहसा रिंगन्नेव स मृतस्य मार्गदर्शकस्य निकटं गतस्तस्य च प्रसेवमुद्घाट्य दृष्टस्तेन । तत्र कतिचन रोटिकाः पलाण्डुश्चैकः प्राप्य स खादितुं प्रवृत्तः । तावता तेन स्मृतं यत् दूराद् गुलिकाः प्रक्षिपन् स कश्चनाऽस्य मृतदेहादत्रं; ग्रहीतुमागच्छेत् कदाचित् । अतस्तेन मार्गदर्शकशवं कृष्ट्वा शिलाभ्योऽधस्तात् प्रक्षिप्तम् । प्रक्षेपणाच्च जातेन शब्देन सन्तुष्टः स रिंगन्नेव पुनरपि शिलानां मध्ये निलीनोऽभवत् । __ आरात्रि चलित्वा स सर्वथा श्रान्तोऽभवत् तस्मिन्नेव विजने प्रदेशे शयितश्च । सञ्जाते च प्रातःकाले स जागृतोऽभवत् पुनरपि च रिंगन्नेवाऽग्रे गन्तुं प्रवृत्तः । सन्ध्याकालं यावदेवमेव गच्छतस्तस्य स्थितिरुन्मत्तवत् सञ्जाता । स निष्कारणमेव हसति स्म चीत्करोति स्म च । पूर्वमेव स्फुटितं तस्य घटिकाथन्त्रमितोऽपि त्रिवादनमेव दर्शयदासीत् । एतावतैव तेनाऽनतिदूरस्थमेकं गृहं दृष्टम् । भयस्याऽऽशायाश्च विमिश्रं संवेदनं तस्य प्रत्येकं रोम उत्तेजयति स्म ।