SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कथा अ-क्षरः -मुनिधर्मकीर्तिविजयः गुरु नकः बाल्ये शालायां पठितुं गतवान् । तत्र सर्वेऽपि बालकाः स्वं स्वमध्ययनं कुर्वन्त आसन् । नानकः किमप्यकुर्वन् निरभ्रं गगनं निरीक्षते स्म । अध्यापकेन स दृष्ट उक्तश्च - कथं न पठसि त्वम् ? नानक उवाच - पठाम्येवाऽहम् । अहं तादृशमध्ययनं कर्तुं प्रयते येनाऽध्ययनेनाऽन्यत् किमपि कर्तुं नाऽवशिष्टं स्यात् । शिक्षकोऽवोचत् - किम् ? नानक उक्तवान् - पिकवत् केवलं रटनमात्रेण सज्ज्ञानं नाऽवाप्यते । अध्यापकोऽकथयत् - त्वं तु किमपि न करोषि ? अक्षरज्ञानं तु प्रापणीयमेव । नानकोऽवदत् - अहं 'अ-क्षर'ज्ञानमवाप्तुमेवाऽत्राऽऽगच्छामि । यदा तद् 'अ-क्षर'ज्ञानं मया प्राप्येत तदा जीवन-मरणयोर्मध्ये न काऽपि भेदरेखा स्यात् । अहं तमेव 'अ-क्षरं' प्रत्यक्षत्वेन पश्यामि । ततोऽहं मम मनोलेखकं कथयामि - रे ! लेखक ! मोहं ममत्वं च विमुच्य त्यागरूपमषीभिः बुद्धिरूपकर्गजोपरि प्रेमस्वरूपलेखिन्या सदसतोर्भेदं लिखतु । यस्मिन् दिवसे लिखितुमेतद् समर्थो भवेः तस्मिन्नेव दिवसे त्वयाऽवश्यंतया मुक्तिः संप्राप्स्यते । बालक-नानकगुरोरेतद्वचनं निशम्य तत्क्षणमेवाऽध्यापको नानकपितुः कल्याणरायस्य समीपं गतवानुक्तवाश्च – भवतां नानको न पठितुं, किन्तु जगत् पाठयितुमागतवानस्ति ।
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy