SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कथा एकदा सायंकाले गुरुः शिष्यैः सहाऽश्रमे उपविष्ट आसीत्, सर्वेषां मन आनन्दितमासीत् । वायुः शीतल आसीत् । विहगा निजक्रीडायां लीना आसन् । वृक्षाणां शाखा नृत्यं कुर्वन्ति स्म । सूर्यो निजतापं समहरत्, चन्द्रश्च निजशीतलतां प्रासारयत् । अस्मिन् रम्ये वातावरणे शिष्या निर्विकल्पेन मनसा केवलं गुरोरुपदेशमेव शृण्वन्ति स्म । अथ गुरुः स्वस्य हस्ते दुग्धेनं भृतं चषकमधारयत् । अनन्तरं गुरुणा पृष्टमस्मिन् चषके कियद् दुग्धमस्ति ? शिष्याः तस्य मानं कथयितुमशक्यमस्ति । गुरुः अथ यूयं कथयत यद् यदि दुग्धेन भृतश्चषको युष्माकं हस्तेन ध्रियते, तदा काऽपि वेदना भवेन्न वा ? - - गुरुः शिष्याः गुरुः - शिष्याः गुरुवर्याः ! कमपि भारं न अनुभवेम । गुरुः एकघण्टापर्यन्तं यदि चषको हस्तेन धार्येत, तदा किं काऽपि वेदना भवेत् ? शिष्याः हस्तः क्लाम्येत् । ततो गुरुणा पृष्टम् - यदि पञ्चघण्टापर्यन्तं हस्तेन ध्रियते तदा कीदृशी वेदना भवेत् ? शिष्याः - प्रसन्नताया रहस्यम् - हस्तः अङ्गुल्यश्च कम्पेरन् । हस्तमुच्चैः कृत्वा चषको यदि ध्रियेत, तदा कीदृशी वेदना भवेत् ? सम्पूर्णो हस्त: क्लाम्येत् । यदि चतुर्विंशतिघण्टापर्यन्तं वयं तया रीत्या चषकं धारयेम, तदा कीदृशी वेदना भवेत् ? शिष्याः ईदृश्या रीत्या तु चषको हस्तात् पतेत् । ६२ सा. तत्त्वनन्दिताश्रीः - - -
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy