SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अथ सुविद्याऽपि - तस्यैव काष्ठविक्रेतुर्गृहे गत्वा स्थास्यामि, दर्शयिष्यामि च राज्ञे स्ववचनसंस्तवमित्येवं बहु विचिन्त्य तद्गृहं गतवती । गत्वा च तत्र सप्रश्रयं व्याज - भो पितः ! भवान् मां स्वगृहे रक्षतु, भवच्छ्रुश्रूषां कुर्वती शुष्करुक्षादिभोजनेनैव स्वनिर्वाहं विधास्ये । सह अहं स्वयमेवैकादशीं कुर्वे । यस्मिन् दिने काष्ठानि विक्रीयन्ते तस्मिन् दिने कथङ्कारं रोटिका लभे । यस्मिंश्च दिने तानि न विक्रीयन्ते, तद्दिने तु बहुधाऽऽखवोऽपि विदधत्येकादशीम् । सा जगाद - यत्किंचनाऽपि मद्भाग्यस्य भविष्यति तदवश्यं प्राप्स्यते, नाऽत्र सन्देहः । एतादशीं तस्या वाचमाश्रुत्य काष्ठविक्रेताऽभणत् - यद्येवं तर्हि यथाऽहं सन्तिष्ठे तथा त्वमपि मया सह सुखदुःखमाक् सन्तिष्ठस्व । विधिस्त्वद्भाग्यस्याऽपि कवलं दास्यत्येव । वा जानीते यत्त्वद्भाग्येनैव ममाऽपि कवलं स्यादिति । - अथैवं राजपुत्री महानिपुणत्वात् काष्ठविक्रेतृसदृशं भारमेकत्र चकार । अन्यदिने तु स काष्ठविक्रेता काष्ठानामाणकैकमलभत, किन्त्वद्यत्वाणकद्वयं लभते स्म । यह्येव स काष्टभारमादाय प्रतस्थे तर्ह्येव साऽपि स्वशिरसि काष्ठभारं संस्थाप्य प्रचलितवती । या च काष्ठविक्रेतुः स्त्री साऽतीव स्वभावक्रूरा, अहर्निशं गृहे कलहायतेऽत एव तस्या नाम कुबुद्धिरिति । दूरादेव समायान्तीं तेन सार्धं तां समीक्ष्य 'अद्यैतावान् कथं लम्बो विलम्ब इति, वयं हि क्षुत्क्षामकण्ठा भवामोऽमूनि त्वदपत्यानि च बुभुक्षया पीड्यन्ते' इत्यभिधाय चित्ते किमप्यन्यदेवाऽचिन्तयत् । सर्वं तस्या भावस्थं विदित्वा सा सुविद्या सप्रश्रयमूचे - जननि ! अद्याऽन्यदिनापेक्षया काष्ठान्यपि त्वधिकानि वरीवृत्यन्तेऽत एवाऽद्य लम्बो विलम्बः । अनेन मत्पित्रा च मयि दयां विधाय मह्यं जीवदानं प्रदाय त्वच्छुश्रूषायै चाऽहं नीता, अस्मिन् कोपं मा कृथा विलम्बहेतुरहमेव । इत्थं माधुर्यवचोभिस्तां यथावच्छमयित्वाऽऽनीतं काष्ठमारं त्रिधा विधाय पितृपुत्रयोर्मूर्ध्नि संस्थाप्य विक्रेतुं प्रैषीत् । भारत्रयीत्वाच्च तान्येव काष्ठानि त्वद्य दशपणैर्विक्रीयन्ते स्म । अथ तेषु दशपणेषु षड्भिः पणैर्भोजनसामग्रीं समानाय्याऽऽणकैकं पेटिकायां प्राक्षिपत् । द्वितीयदिने च सा सुबुद्धिः सुविद्या तदीयात्मजद्वयीमपि किञ्चिद् दत्त्वा प्रलोभ्य तेनैव पित्रा सार्धं काष्ठानि सञ्चेतुं विक्रेतुञ्च संप्रेष्य स्वयञ्च स्वसमीपस्थगृहे चूर्णपेषणाय संलग्ना । अयं च काष्टविक्रेता प्रतिदिनं पक्कामेव रोटिकां समानयति स्म । किं च तद्द्द्दिनेऽपि यदैकैकं पणं प्रदायाप्याणकैकमवशिष्टं, गृह एव भोजनसम्पादनात् सर्वेषामुदरपूर्तिश्च जाता तदाऽवशिष्टपणानां तूलिकां समानाय्य स्वपार्श्वस्थगृहे तस्यास्तूलिकायाः सूत्रं निष्पाद्य व्यक्रैषीत् । इत्थं विदधत्यास्तस्यास्तस्मिन्मासे रूप्यकैकमवशिष्टम् । अथ गते कियति काले सा तेन रूप्यकेण काष्टविक्रेत्रे चैकां कुठारिकां मूल्येनाऽऽनाय्याऽभ्यघात् - यत्प्रतिदिनमेकैकलघुकाष्टसंचयेन लघूनि स्वल्पानि च काष्ठानि समानीयन्ते, किञ्चाऽनया- कुठारिकया छेदं छेदं महान्त्येधांस्यानयतु । यतस्तानि महान्ति काष्ठानि बहुमूल्येन विक्रीयेरन् । स्वयञ्च स्वपार्श्वस्थगृहतः सूचिकाकर्त्तरिकासुवस्त्राद्यानीय शिरस्त्राणादि कर्त्तुमारभत । ततः कतिपयगृहेषु मेलनं विधाय यस्य वस्तुन आवश्यकता भवेत्तद्वस्तु याचित्वा, स्वकार्यञ्च कृत्वा पश्चात्समर्यपति स्म । कस्यचिद् बालस्य शिरस्त्राणं सीव्यति स्म कस्यचिदङ्गरक्षणम् । काशविरेचनादिरोगाणामौषधि निर्माय निर्मूल्यमेवाऽर्पयन्ती सर्वेषामेव मान्याऽतिवल्लभा चाऽजनिष्ट । एवमिदानीं प्रतिदिनं पञ्चषाणकानां काष्ठानि ३१
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy