________________
झेनकथा
स्वभावः
-आ. श्रीविजयसूर्योदयसूरयः
कश्चन जनो झेनगुरोः समीपे आगतः स्वसमस्यां निवेदयितुम् । गुरुः स्वस्थतया तन्निवेदनं शृणोति स्म ।
स जनो वदति - "गुरो ! मम स्वभावोऽत्यन्तं क्रोधमयोऽस्ति । कोपस्याऽग्रे मम किमपि न चलति । कृपया क्रोधान्मां मोचयतु" ।
"अरे ! तव क्रोधोऽद्भुतो ज्ञायते खलु ! दर्शय तावत् तव क्रोधमयं स्वभावम्" - गुरुः सस्मितमवदत् । .
"गुरो ! अधुना कथं दर्शयेयम् ?" "कथं न दर्शयेस्त्वम् ? दर्शयितव्य एव" । "किन्तु गुरो ! क्रोधस्त्वकस्मादागच्छति, मम चित्ततन्त्रं च स्वाधीनं करोति" ।
"एवं वा ? तहि स नैव तव स्वभावभूतः ।" यदि क्रोधस्ते स्वभाव एव मूलप्रकृतिरेव वाऽभविष्यत् तदा तु त्वमधुनैव तं मेऽदर्शयिष्यः । त्वं तु तथा दर्शयितुं न शक्नोषि, ततो ज्ञायते यत् स त्वयि नास्ति । यद् वस्तु तव नास्ति तत् कथं तव स्वभावभूतं भवेत् ? प्रत्युत स तु तव विकृतिरस्ति" - गुरुः स्नेहसिक्तेन ध्वनिनाऽवदत् ।
तदनन्तरं, यदा यदा शिष्यस्य क्रोधोदयो भवेत् तदा तदा गुरोः स्नेहपूर्णं वचः स्मर्यते तेन यत् - क्रोधस्ते स्वभावो नास्ति प्रत्युत विकारोऽस्ति - इति । एवं चाऽनतिचिरेणैव स क्रोधान्मुक्तोऽभवत् ।
४६