SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः प्राकृतद्व्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृत पद्यानुवादः) - पं. नरेन्द्रचन्द्र-झा तृतीयः सर्गः कृतमन्मथसामर्थ्य वरशक्तेः कृतमहं वसन्तद्यैः । नयनोत्सवमुद्यानं द्रष्टुं चोत्को गतो राजा ॥१॥ जयस्पृहोत्सुकमदनः पातकनिःस्पृहसभार्ययुवलोकः । अलिनिलयानैः कलितस्ततः प्रविष्टो वसन्तर्तुः ॥२॥ वीराग्रगण्यपार्थबलवद्रामाभिमन्युप्रमुखाणाम् । अभ्यर्हित एवाऽऽसीत् सफलसुमेषुः स्मरः कामम् ॥३॥ गतसाध्वसस्य मकरध्वजस्य खलु मधुद्वितीयस्य । वञ्जुलपल्लवमिषत आसीत्तेजः समिन्धानम् ॥४॥ पत्तनवधुवलयायितवृत्तप्रवृत्तालिमण्डलश्चूतः । पवनकदाथितसुमनोरजःसुरभिमृत्तिको जातः ॥५॥ रमणीधूर्तिमवार्तानिवर्तको लतानटीनामुपाध्यायः । प्रकटितमन्मथवार्तः शिथिलितवासन्तिकावृन्तः ॥६॥ वियोगिविसंस्थुलास्थिकरणो रतिनाथरतिमधुचतुर्थः । कामार्थधनः सुखदस्तुर्यपुरुषार्थनिरतानाम् ॥७॥ हिमजलशीतः स्त्यानसहकारमधुबिन्दुचुम्बनकः । मन्मथसन्दष्टेषु चेष्टाघातो मधोभृत्यः ॥८॥ . मग्नैरिव मुखगर्तेऽत्युच्चवितर्दिस्थितैश्च संसेव्यः । छदितमलयोद्यानः संमर्दितमल्लिविस्तारः ॥९॥
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy