________________
३७४ विशेषावश्यकभाष्ये
[नि०४५१जस्सेगमेगबंधणमेगन्तेण खणियं च विण्णाण । 'सव्वखणियविण्णाण तस्सायुत्तं कदाचिदवि ।।२१२९॥ जं सविसयणियतं चिय जम्माणंतरहैतं च तं किध णु । णाहिति सुबहुअविण्णाणविसयखणभंगतादीणि ॥२१३०॥
जस्सेग० गाहा । [ज सवि० गाहा) । इह यस्यैको कार्यालयानमुलायनतर ध्वंसि च विज्ञानमिष्टं तस्य 'सर्वं क्षणिकम्' इति चैतद्विज्ञानं न कदाचिदपि सम्भाव्यते । कथं ! सर्वमित्येतदशेषविज्ञेयाश्रयम् । न चेह सर्वविज्ञेयालम्बनं विज्ञानमभिप्रेतम् । परस्य स्वविषयनियतमात्रमेकमेव हि तदिति कुतोऽस्य सर्वपरिच्छेदसामर्थ्यम् ! एका. र्थत्वेऽपि हि सर्वपरिच्छेदसामर्थ्य भवेद्यदि युगपदनेकविज्ञानप्रसूतिः, आत्मा च तन्निबन्धनमवस्थितः प्रतिपद्यते(येत)। न च तदनेकमिष्यते ।। अथवा यदि तदेकमेकनिबन्धनं च सदुत्पत्त्यनन्तरध्वंसि न स्यात् , ततस्तदासीनमन्यं चान्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तमुपलभ्य 'सर्वमस्मद्वर्जमस्मत्समानजातीयवर्ज च क्षणिकम्' इत्यवबुध्येत, यदि च प्रत्ययनियमो न स्यात् । स्वप्रत्ययमात्रनियतमेव हि सर्व विज्ञानमिति । न चेहाऽक्षणिकत्वमभिप्रेतं परस्य प्रत्ययार्थान्तरवृत्तिश्च, यतः सर्वपरिच्छेदशक्तिरस्य स्यात् । तदक्षणिकत्वादिप्रतिपत्तौ च पक्षहानिः । अतश्च जातिस्मरविज्ञानमविनष्ट. मिहायातमनपद्रव्यं च तद्, गुणत्वात्, तदाश्रयश्चात्मेति सिद्धम् ।।२१३०।।
'गेण्हेज्ज सव्वभंग जति य मती सविसयाणुमाणातो । तं पि ण जतोऽणुमाणं जुत्तं सत्ताइसिद्धीर्य ॥२१३१॥
गेण्हेज्ज गाहा । अथ मतिः-स्वविषयानुमानतोऽवभोत्स्यते सर्वभङ्गमयमस्मद्विषयः क्षणिकोऽहं च । अत एव च विज्ञानविषयसामान्यादन्यविज्ञानविषयाणामपि क्षणिकत्वमिति । तच्च न, यतस्तत्सत्वादिप्रसिद्धावनुमानं युक्तम् । न च तस्य प्रतीतम्अन्यविज्ञानानि सन्ति तद्विषयास्तत्स्वभावप्रत्ययनियमादयश्च । तदप्रतीतौ च क्षणिकत्वानुमानमयुक्तम् । स्यात्-स्वानुमानादेवैतत्-यथाहमस्मि मद्विषयश्च, उभयं च क्षणिकम् , एवमन्यविज्ञानविषया अपति । तच्च न, यतस्तदप्रत्ययात्तदात्मानमेव नावबुध्यते-अहमस्मि विज्ञानं क्षणिकं चेति । न चास्य स्वविषयमात्रभङ्गप्रतीतिरपि तत्समानकालोपरतत्वात् ॥२१३१॥
जाणेज्ज वासणातो सा वि हु वासेन्तवासणिज्जाणं । [१४०-५०] जुत्ता समेच्च दोण्हं ण तु जम्माणंतरह तस्स ॥२१३२॥
१ सव्वं खणवि० जे। २ हितं त। ३ खय हे । ४ हि कुतोऽस्य सर्वपरिच्छेदसा. मर्थत्वेपि हि सर्वपरि --इति प्रती । ५ गिहि हे। ६ °सिद्धीओ को हे । ७ वासित्तवा को हे त। ८ जुत्तो जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org