Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 281
________________ ५५४ विशेषावश्यकभाष्ये [नि० ५६६ण हि गाहा । योऽपि चासावुत्पादानन्तरं विनाशः, सोऽपि न सर्वथा छेद एव किन्तु अद्वापर्यायमात्रना[शोऽ]सौ, यतो द्रव्य-क्षेत्र काल-भाव-पर्यायावनद्धस्वपरपर्यायानन्तधर्मकं वस्तु, तस्यैकेन समयमात्रविशेषणेन नाशात् सर्वथा विनाशो वक्तुं न युक्त इति ॥२८७५|| एवं गुरुणाऽभिहितेऽश्वमित्रः' पुनराह-आगमप्रमाणा गुरवः वयं च । ततो यत्सूत्रेऽभिहितं तत् कथमप्रमाणं भविष्यतीति आगमविरोधः किलाचार्यस्येति । तत उच्यते - अध सुत्तातो त्ति मती गणु सुत्ते सासतं पि णिदिनें । वत्थु दव्वट्ठाए असासतं पनवहाए ॥२८७६॥ अध सुत्तातो गाहा । ननूक्तमस्माभिः-एकनयमतमेतत् यतो द्वितीयनयमतमपि सूत्रेऽस्ति-द्रव्यार्थतः शाश्वतं वस्तु, पर्यायार्थात्(द)शाश्वतमिति ॥२८७६।। एत्य वि ण सव्वणासो समयादिविसेसणं जतोऽभिहितं । इधरा ण सव्वणासे समयातिविसेसण जुत्तं ॥२८७७।। एस्थ वि गाहा । अत्रापि च पर्यायनयमतेन सर्वनाशः किन्तु एकसमयोत्पादादेकसमयविनाशात् स्वसमयविशेषणान्न सर्वप्रकारोत्पाद-विनाशौ ॥२८७७|| तदुदाहरतिको पढमसमयणारगणासे वितिसमयणारगो णाम । ण सुरो घडो अभावो व होति जति सम्वधा णासो ॥२८७८॥ को पढम० गाहा । प्रथमसमयोत्पन्नो नारकः 'प्रथम समयः' इत्युच्यते । स एव तेन प्रथमसमयविशिष्ट नारकत्वेन विनश्यन् द्वितीय समयस्थितिविशेषणात् 'द्वितीयसमयनारकः' इति व्यपदिश्यते । समया उत्पते(यन्ते) विनश्यन्ति च, नारकत्वं तु असंख्येयकालस्थिति भवान्तकालमवतिष्ठते । तेन द्वि(हि) प्रथमसमयादिकालपर्यायेणोत्पद्यन्ते विनश्यन्ति चेति तदुत्पादविगमान्न सर्वथा विनाशः । तस्य प्रथ समयनारकविनाशे सर्वात्मना नारकोच्छेदः (दे) कोऽसौ द्वितीयसमये नारको नाम पूर्वस्माद् अत्यन्त भिन्न जातीयः कि देवः ? आहोस्विद् घटः ? किमभाव एव सर्वथा नाशात् ? उन्यते च भवता 'नारकः' इति । तस्मान्नारकपर्यायाऽव्ययी स स्थिति कालावस्थायी न विनष्ट इति तेना(न) व्यपदिश्यते ॥२८७८।। १ तश्वमियः पु-इति प्रतौ । २ ताउ को हे । ३ सुत्ते नणु को हे । ४ 'जयहा हे। www.jainelibrary.org Jain Educationa International For Personal and Private Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338