Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 329
________________ ६०२ विशेषावश्यकभाष्ये [नि० ५७४__आता खलु सामइयं । सदहति जाणतीत्यादि । आत्मा जीवः–'खलु' शब्दोऽवधारणे --जीव एवं सामायिकम् , न अ जीवः, न वा जीवाऽजीवो, न वा तदर्थान्तरमभाव इति । सोऽपि न सर्व एव जीवः सामायिकम् किन्तु विशिष्टगुण एव-प्रत्याचक्षाणः- प्रत्याख्यानं कुर्वन् , क्रियमाणं कृतमिति वर्तमानस्यैवातीतभावापत्तेः कृतप्रत्याख्यानोऽपि जीवः परिगृह्यते । स एव च परमार्थतः आत्म। स्वस्वभावाऽऽपत्त्यभिमुखत्वात् , शेषः संसारी आत्मैव न भवति घातिकर्मभिः स्वाभाविकगुणतिरस्करणात् । एतदर्थप्रतिपादनाय द्वितीयः 'आत्म' शब्द इति । ते च स्वाभाविका गुणाः श्रद्धानम् ज्ञानम् सावद्ययोगविरति चेति । तस्माच्छूदान ज्ञान-प्रत्याख्यानधर्मत्वाज्जीव एवं सामायिकम् । तं खलु पच्चकखाणं खलु शब्दो वाक्यालङ्कारेऽपि प्रयुक्तस्तद्भावपरिणत्यनन्यत्वज्ञापनार्थः, शब्दाधिक्या दाधिक्यं गम्यत इति ।।३११७-१८। तस्य भाष्यगाथा --- सामाइयभावपरिणतिभावानो जीव एव सामइयं । सद्धेयणेयकिरियोवयोगतो सव्वदाई ॥३११९।। सामाइय० गाहा । तत् प्रत्याख्यानं जीवादनन्यभावपरिणतेविषयरूपेण सर्वव्याणामापाते आभिमुह्येन समवाये संघाते निप्पद्यते, श्रद्धेय ज्ञेय-क्रियोपयोगित्वात् सर्व द्रव्याणाम् ॥३११९॥ ___ तदेव विभागेनाख्यायते-- पढमम्मि सचजीवा 'वितिये चरिमे य मवदव्याई । सेसा महन्वता खलु तदेकदेसेणं दवाणं ॥५७४॥३१२०॥ जं सबजीवपालगविसयं पाणातिवातेवेरमणं । मिच्छा मुच्छोवरमा सव्व्वे सु विणियुत्ता ।।३१२१॥ पढमम्मि सव्वजीवा । जं सव्वनीवपालण विसयं । यस्मात् त्रसस्थावरसूक्ष्मस्थूलसर्वजीवपालनविपयं प्राणातिपातविरतिवतं तस्मात् प्रथमे व्रते सर्वजीवा विषयत्वेन संगृहीताः । मिथ्या अनृतं मृषेति पर्यायाः । मूर्छा गृद्धिः परिग्रह इति पर्यायाः । मिथ्या च मूळ च मिथ्यामू: ताभ्यामुपरमो विरतिः मिथ्या-मूछों. परमो द्वितीये चरमे च व्रते । तयोः सर्वदयपरिग्रहः, सर्वव्यापलापान् अन्यथाप्ररूपणाद्वा मृषावाद विषयः, सर्वं ममेदं भुवनत्रयमिति लोभाविःकरणात् परिग्रहविषयः ॥३१२०-२१॥ १ कुवन्त-इति प्रतौ । २ 'भापत्त्यभिमुखत्वान्' अत्र आपत्तिः-आपादनम्-प्राप्तिः । ३ सामतिय जे । ५ 'यभेय त । ५ मंमि हा । ६ बीए त हे म। ७ देगदे हे, 'दिक्क म । ८ देसाण त । ९ वाइवे त । १. "व्यदव्व जे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338