Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 326
________________ नि० ५७२] अनुमतद्वारम् । ५९९ तवसजेमो चरित्तै णिग्गं| पवयणं ति सुतणाणं । तग्गहणे सम्मत्तं चग्गहणातो ये बोद्धव्वं ॥३१०६॥ तिणि वि सामइयाई इच्छन्ता [२०४-द्वि०] मोक्खमग्गमाइल्ला । किं मिच्छद्दिट्ठीया वदंति जमसमुदिताई पि ।।३१०७।। उज्जुसुतादिमतं पुण णेव्वाणपधो चरित्तमेवेगं । ण हि गाणदंसणाई भावे वि ण तेसि जं मोक्खो ॥३१०८॥ जं सव्वणाणदंसणलाभे वि ण तक्खणं चिय विमोक्खो । मोक्खो य सव्वसंवरलाभे मग्गो स एवातो ॥३१०९॥ तवसंजमो अणुमतो इत्यादि । अस्य भाप्यगाथा: पञ्च-कस्स णयस्साणुमतं इत्यादि । तपश्च संयमश्च तपःसं यमौ प्राकृते द्विवचनाभावादेकवेन वा निर्देशो बहुत्वेन वा । तपःप्रधानो वा संयम इति तप: चारित्रसामायिकमेवं निर्दिष्टं भवति । नि(नै)न्य वचनमिति श्रुतसामायिकं परिगृह्यते । एपां च पूर्वस्य लाभ भजनीयमुत्तरम् उत्तरलाभ तु नियतं पूर्वलाभ इति । एतद्वितय परिग्रहात् सम्यग्दर्शनावश्यंभाव इति सम्यक्त्वसामा. यिकमिति(मपि) परिगृहीतमेवम् । अथवा 'च'शब्द:- अधिकवचन द्वितयादधिक-सम्यक्व. सामायिकं परिगृह्णाति । व्यवहारग्रहणेन द्रव्यार्थविषयं नैगम-संग्रह व्यवहारनयत्रिकं परिगृह्यते विस्तरग्रन्थानुसारात् । अतः सर्वाणि सामायिकानि नैगम-संग्रह व्यवहा. राणां मोक्षमार्ग इत्यनुमतानि ।। अत्राह कश्चित्-तिण्णि वि गाहा । नैगम-संग्रह-न्यवहारा: त्रयोऽपि सम्यगदृष्टयः प्राप्ताः, त्रिविधमोक्षमार्गाभिधायित्वात् , नयसमूहबचनवत् । एवं चानिष्टापादनमाहे तस्य क्रियते अभ्युपगमविरोध इति कृत्वा । अत्र प्रतिविधीयते-त्रिविधमोक्षमार्गाभिधायित्वादिति को हेत्वर्थः ! किं समुदितानि परस्परसापेक्षाणि त्रिफलावत् त्रीणि सामायिकानि मोक्षमार्गमित्यभिदधति एते नयाः ? आहोस्विद्यथा कथञ्चित् त्रीणि समुदितानि वा ? पूर्वस्मिन् पक्षे असिद्धे(द). हेतुत्वमपक्षधर्मत्वात् । द्वितीयपक्षे साधनधर्मशून्यो दृष्टान्तः, सर्वनयस तूहस्य परस्पर सापेक्षाण्येव त्रीण्यपि सामायि कानि मोक्षमार्ग इति । तस्मात् मिथ्या दृष्टयो नैगमाद. यस्त्रयः, असमुदितत्रितयमोक्षमार्गाभिधायित्वात् , वैशेषिकादिवत् । । अथ सूत्रगाथापश्चाईस्य भाष्यगाथा-°उज्जुसुतादि० । ऋजुसूत्रादीनां शेषनयानामुत्तरोत्तरविशुद्धया चारित्रसामायिकमेवैकं मोक्षकारणम् , तद्भावे भावात् , ज्ञानदर्शनभावेऽप्यभावात् , घटनिवृत्तौ कुम्भकारे(र)यत्नवत् । एतदन्वयप्रदर्शनाय वैधर्म्यप्र१ °जमा जे, जमो त्ति को हे । २ °रितं को हे । ३ गाथं को। ४ तग्ग' त । ५ व जे । ६ छंता को है । ७ निव्वा हे। ८ तास हे । ९ °लम्मे को, 'लभे हे त । १. लाभो जे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338