SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ५५४ विशेषावश्यकभाष्ये [नि० ५६६ण हि गाहा । योऽपि चासावुत्पादानन्तरं विनाशः, सोऽपि न सर्वथा छेद एव किन्तु अद्वापर्यायमात्रना[शोऽ]सौ, यतो द्रव्य-क्षेत्र काल-भाव-पर्यायावनद्धस्वपरपर्यायानन्तधर्मकं वस्तु, तस्यैकेन समयमात्रविशेषणेन नाशात् सर्वथा विनाशो वक्तुं न युक्त इति ॥२८७५|| एवं गुरुणाऽभिहितेऽश्वमित्रः' पुनराह-आगमप्रमाणा गुरवः वयं च । ततो यत्सूत्रेऽभिहितं तत् कथमप्रमाणं भविष्यतीति आगमविरोधः किलाचार्यस्येति । तत उच्यते - अध सुत्तातो त्ति मती गणु सुत्ते सासतं पि णिदिनें । वत्थु दव्वट्ठाए असासतं पनवहाए ॥२८७६॥ अध सुत्तातो गाहा । ननूक्तमस्माभिः-एकनयमतमेतत् यतो द्वितीयनयमतमपि सूत्रेऽस्ति-द्रव्यार्थतः शाश्वतं वस्तु, पर्यायार्थात्(द)शाश्वतमिति ॥२८७६।। एत्य वि ण सव्वणासो समयादिविसेसणं जतोऽभिहितं । इधरा ण सव्वणासे समयातिविसेसण जुत्तं ॥२८७७।। एस्थ वि गाहा । अत्रापि च पर्यायनयमतेन सर्वनाशः किन्तु एकसमयोत्पादादेकसमयविनाशात् स्वसमयविशेषणान्न सर्वप्रकारोत्पाद-विनाशौ ॥२८७७|| तदुदाहरतिको पढमसमयणारगणासे वितिसमयणारगो णाम । ण सुरो घडो अभावो व होति जति सम्वधा णासो ॥२८७८॥ को पढम० गाहा । प्रथमसमयोत्पन्नो नारकः 'प्रथम समयः' इत्युच्यते । स एव तेन प्रथमसमयविशिष्ट नारकत्वेन विनश्यन् द्वितीय समयस्थितिविशेषणात् 'द्वितीयसमयनारकः' इति व्यपदिश्यते । समया उत्पते(यन्ते) विनश्यन्ति च, नारकत्वं तु असंख्येयकालस्थिति भवान्तकालमवतिष्ठते । तेन द्वि(हि) प्रथमसमयादिकालपर्यायेणोत्पद्यन्ते विनश्यन्ति चेति तदुत्पादविगमान्न सर्वथा विनाशः । तस्य प्रथ समयनारकविनाशे सर्वात्मना नारकोच्छेदः (दे) कोऽसौ द्वितीयसमये नारको नाम पूर्वस्माद् अत्यन्त भिन्न जातीयः कि देवः ? आहोस्विद् घटः ? किमभाव एव सर्वथा नाशात् ? उन्यते च भवता 'नारकः' इति । तस्मान्नारकपर्यायाऽव्ययी स स्थिति कालावस्थायी न विनष्ट इति तेना(न) व्यपदिश्यते ॥२८७८।। १ तश्वमियः पु-इति प्रतौ । २ ताउ को हे । ३ सुत्ते नणु को हे । ४ 'जयहा हे। www.jainelibrary.org Jain Educationa International For Personal and Private Use Only
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy