Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 291
________________ विशेषावश्यकभाष्ये नि० ५६६ते च्चिय ण संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगं पि तयं जम्हा सामण्णभावेणं ॥२९२४॥ समयमणे० इत्यादि । य इस्थमेवैकस्मिन् काले शीतोष्णवेदनानुभवः [स] किं नानुज्ञायते ? भवत्वेवासौ अनेकार्थग्रहणत्वात् एककालः, अनेकार्थस्कन्धावारोपयोगवत् । आचार्य आह-केण व भणितं दोसो ? सिद्धसाधनमेवेत्यभिप्रायः । शीतोष्णार्थभेदेऽपि अनेकार्थविषय एकोपयोगी वेदनामात्रसामान्यानुभवः केन वार्यते ! उष्णवेदनेयं शीतवेदनानि च, एकस्मिन् काले उपयोगद्वयं नेष्यत इति विचारः । ____ स्कन्धावारोपयोगे तु युगपदनेकार्थग्रहणे एकानेकोपयोगभेदविचार एव नास्ति, सामान्यतः स्कन्धावारोपयोगे(ग) एक एवेति । ये पुनरमी प्रतिवस्तु भेदेन पटकुटीकुटीरकुर्व(ट)जहस्त्यश्वरथपदातिजयनशालाविचित्रापणपण्याद्युपयोगास्ते बहव एव, भिन्नकालाश्च प्रतिस्वम् , न हस्त्युपयोगः पदात्युपयोगतां लभते । त एव च भिन्नकालाः समकं न भवति(न्ति) शीतोष्णवेदनाद्वयवत् , सामान्यस्कन्धावारोपयोगस्तु अनेकात्मकैकत्वसामान्यरूपेण भवत्येवेति ॥२९२१-२४॥ उसिणोऽयं सीतोऽयं ण विभागेणोवयोगदुगमिहूँ । होज्ज समं दुगगहणं सामण्णं वेतणा मे त्ति ॥२९२५।। उसिणोऽयं इत्यादि गतार्था ॥२९२५।। जं सामण्णविसेसा विलक्खणा तण्णिर्वन्धणं जं च । णाणं जं च विभिण्णा मुदतोऽवग्गहावाया ॥२९२६।। जं च विसेसं गाणं सामण्णणाणपुवयमवस्सं । तो सामण्णविसेसं णाणाई णेगसमयम्मि ॥२९२७॥ जं सामण्णविसेसा इत्यादि । एवं च कृत्वा एकस्मिन् काले सामान्यविशेषोपयोगौ युगपन्न भवतः विलक्षणत्वादि(द्), भिन्नज्ञाननिबन्धनत्वात् , भिन्नावग्रहेहापायधारणत्वात् , पूर्वोत्तरकालभावित्वात्, वेदनासामान्यशीतोष्णवेदनाविभागज्ञानवत् ॥२९२६-२७॥ आर्यगङ्ग आह ---- १ तम्हा को हे त । २ वायौ मेकार्थत्वात् । पुनश्चोदक एवाह.........मेकार्थग्रहणस्वात्'- इति पुनः आवृत्त्या लिखितं प्रतौ । ३ सिणेयं को हे त । ४ सीययं को हे त। ५ भागो णो' हे त। ६ मित्थं हे। ७ णमेत्तं को, म त्ति त । ८ वध को हे। ९ ताणं त । १० °सन्नाणं को हे। ११ मन्नन्नाण' को हे। १२ सन्नाणा को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338