________________
विशेषावश्यकभाष्ये
[नि० ४५५सव्वा० गाहा । सर्वाभावे वा कुतः खल्वारात्परभागनानात्वपरिकल्पनम् ? अथ परबुद्धयाभिधीयत इति । ननूक्तं [अ]सति परमतिविशेषणमनर्थकम् । तदभ्युपगमे वा पक्षहानिरिति ।।२१९६॥
आरपरमज्झभागा पडिवण्णा जति ण सुष्णता णाम । अप्पडिवण्णेसु चे का विकप्पणा खरविसाणस्स ॥२१९७।।
आर० गाहा । आरात्परमध्यभागप्रतिपत्तौ न शून्यता नाम, अप्रतिपत्तौ वा किमिह खरविषाणादीनामियं प्रकल्पना न क्रियते, घटादीनां च क्रियत इति को विशेषः !
सव्याभावे वाऽऽराभागो कि दीसते ण परभागो । सव्वागहणं व ण किं किं वा ण विवज्जओ होति ॥२१९८॥ परभागदरिसणं वा फलिहादीणं ति ते धुवं सन्ति । जति वा ते वि ण सन्ता परभागादरिसणमहेतू ॥२१९९॥
सव्वा० गाहा। [परभाग० गाहा] । सर्वाभावे वा किमाराद्भाग एवोपलभ्यते न परभागः ? किं वा न सर्वानुपलब्धिविपर्ययो वेति ?
परभागादर्शनादिति च ब्रुवाणस्य येषां स्फटिकादीनां परभागदर्शनमिह तदस्तित्वप्रतिपत्तिः । यदि वा तेऽप्यसन्तः परभागादर्शनादित्ययमहेतुः स्यात् । नन्वर्थापत्तिसमेयं जातिरभिधीयते । यथेह प्रयत्नानन्तरीयकत्वादनित्य इत्यपदिष्टे नावश्यमप्रयत्नानन्तरीयकत्वान्नित्य इति । तच्च न, यतस्तत्र प्रयत्नानन्तरीयकत्वस्य सपक्षे व्यतिरेकदर्शनाद. प्रयत्नानन्तरीयकत्वस्य चादर्शनाद्युक्तो विशेषः । इह भवतः सर्वासद्वादिनः को विशेषः यद्भयाद्विशेष्यापदिश्यते--परभागादर्शनादसत् । किमिह मा भूत परभागदर्शनात् सच्चासच्च, यथेहाऽप्रयत्नानन्तरीयकत्वान्नित्यमनित्यं वेत्येवं यदि हि भवतः कुतश्चिदपि हेतोः सत्त्वप्रतिपत्तिः स्यात् परभागादर्शनादसदिति विशेषणमनुरूपं स्यात् ।।२१९८-९९॥
सव्वादरिसणतो च्चिय ण भण्णते' कीस भणति तं णाम । पुव्यब्भुवगतहाणि पच्चक्खविरोधता चेव ॥२२००॥
सव्वा० गाहा । सर्वाभावे सति सर्वदैवाऽदर्शनादेवेति किं नोच्यते ? किमिह परभागाऽदर्शनविशेषणेन ? आह-तन्नामास्तु । उच्यते-नन्वेवं पूर्वाभ्युपगतहानिराप्यते, प्रत्यक्षविरुद्धं च-पूर्वमुक्ता(क्त्वा) परभागादर्शनात्, इदानीं सर्वाऽदर्शनादिति ।।
१ वणो जे । २ वि त को हे । ३ परि जे। ४ °णउ को हे । ५ भण्णइ को हे । ६ हाणी को हे । ७ विरोहओ त को हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org