Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 226
________________ ४९९ नि० ५३६] उपोद्घाते लक्षणद्वारम् । तुल्लाकारदरिसणं सरिसं दव्वस्स लक्खणं तं पि । जध घडतुल्लागारो घडो त्ति तध सव्वमुत्तीसु ॥२६२३।। तुल्लाकारदरिसणं सरिसमित्यादि । तुलया सम्मितं तुल्यं समपरिणामित्वात् । आकरणमा कृतिराकारः संस्थानविशेषः । तुल्य आकारो यस्य तत् तुल्याकारम् । दर्शनं प्रत्ययः प्रतीतिः । तुल्याकारस्य प्रतीतिः-तुल्याकारस्य दर्शनं सदृशमुच्यते । समानदृक्त्वं यत्र द्रष्टणां तत् सदृशम्- यथा-घटतुल्याकारोऽन्यो घट इति सदृशाकारता द्रव्यलक्षणम् । एवं सर्व मूत्तिंपु आकारवत्त्वात् ॥२६२३॥ अमूर्तेषु सामान्यलक्षणं वक्ष्यते । तच्चेदम्सामण्णमप्पितमणप्पितं च तत्थंतिमं जधा सिद्धो । सिद्धस्स होति तुल्लो सब्बो सामण्णधम्मेहिं ॥२६२४॥ सामण्णमप्पितमणप्पितं चेत्यादि । 'ऋ गतौ' इत्यस्य धातोर्णिजन्तस्य प्रयोज्यकर्तरि अर्पितम्-उपनीतम्-विवक्षितम्-आमृष्टम्-विशेपितमित्यर्थः । तद्विपर्ययादैनर्पितम् । एतद्वयोः प्रक्रान्तयोः 'अन्तिमम्-यथा सिद्धः' इत्येवं सामान्यधर्मार्पणात् यथाविवक्षितानर्पितोदाहरणम् । सद्-द्रव्य-जीव-मुक्तामूर्त-ऽक्षायिकसम्यक्त्व-ज्ञान-दर्शन-भव्यत्वविगमसिद्धत्वादिसामान्यधर्मेः सिद्धः सिद्धस्य सर्वस्य तुल्य इति सामान्यलक्षणम् ॥२६२४॥ एगसमयातिसिद्धत्तणेण पुणरप्पितो स तस्सेव । तुल्लो सेसाऽतुल्लो सामण्णविसेसधर्म त्ति ॥२६२५॥ योऽसावनर्पितनयस्य(श्च) सिद्धस्य(श्च) द्रव्यामूर्तत्वादिभिः सामान्यधर्मेः सर्वसिद्धानामन्येषां तुल्यः, स एव पुनरर्पितः-एकसमयसिद्धवेन अथवा द्विसमयसिद्धत्वेन संख्येयसमयसिद्धत्वेन अनन्तसमयसिद्धत्वेनेत्यादि, आदिग्रहणस्यैतत् फलम्स एकसमयसिद्धत्वेनार्पितो विशेषधर्मण तस्यैव तुल्यः । कस्येति चेत् ? प्रकृतत्वादनन्तरविशेषधर्मेणार्पितस्यान्यस्य एकसमयसिद्धस्यैव, न द्विसमयादिसिद्धस्य । अत एव आह-'सेसाऽतुल्लो' एकसमयसिद्धत्वविशेषधर्माप्तिादन्यः शेषः द्विसमयादिसिद्धः । ते चानन्ताः शेषास्तेषां शेषाणामतुल्यः शेषातुल्यः । कुत एतदिति चेत् ? अत उपपत्तिमाह-'सामान्यविशेषधर्मत्वात्' सामान्यविशेपा धर्मा यस्य स सामान्यविशेषधर्मा, तद्भावः सामान्यविशेषधर्मत्वम्, तस्मात् सामान्यविशेषधर्मत्वात् । यथा सिद्धस्तथा सर्वे पदार्थाः । एवमुक्तं सामान्यलक्षणम्, तदविनाभावि विशेषलक्षणमपि, सा १ तादुच्य ल'-इति प्रतौ । २ दनिपि इति प्रतौ। ३ तर्पित इति प्रतौ । ४ 'द्रव्याजी इति. प्रतौ । ५ सेसोऽतु को त । ६ धम्मो को हे त । . क्षणात्मतद-इति प्रतौ । For Personal and Private Use Only www.jainelibrary.org Jain Educationa International

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338