________________
४९६
विशेषावश्यकभाष्ये [नि० ५३३द्रव्याणि च पुद्गलात्मकत्वाद्रपाणि, तानि चावधि-मनःपर्याययोः प्रत्यक्षाणि । अतस्तयोः प्रत्यक्षत्वात् 'तत्प्रत्यक्षत्वात्' 'तेसि' तयोरवधि-मनःपर्याययोः सामायिकमपि लेश्यापरिणामित्वात् प्रत्यक्षमिति युक्तः एवं त्रिविधः प्रत्यय इति ॥२६०७-८।।
एवं तर्हि---- ओधातिपच्चयं चिय जति तं ण सुतेम्मि पच्चयो पत्तो । पच्चक्खणाणिवझस्स तेण वयणं ण सद्धेयं ॥२६०९॥
प्रोधाति गाहा । अवधिमनःपर्यायप्रत्ययमेव यदि सामायिकम् , ततः श्रुतज्ञानप्रत्ययता तस्य हीयत इति । हीयताम् , को दोष इति चेत् , अतो दोषप्र. दर्शनम्-प्रत्यक्षज्ञानिनं मुक्त्वाऽन्यस्य श्रुतज्ञानवतो वचनमश्रद्धेयं प्राप्नोति । इप्यते चाप्तानां त्रयाणां गणधर-प्रत्येकबुद्ध-स्थविराणां श्रुतज्ञानप्रत्ययत्वमिति ॥२६०९॥
एतत्परिहारगाथा--- मुतमिह सामइयं चिय पच्चइयं त जतो य ते वयणं ॥ पच्चक्खणाणिणो च्चिय पच्चायणमेत्तवावारं ॥२६१०॥
सुतमिह इत्यादि । सामायिकं श्रुतज्ञानमेव प्रत्ययोऽस्यास्तीति प्रत्ययिक तत् । न स्वयं प्रत्ययः। अवध्यादिप्रत्यक्षज्ञानप्रत्ययात्तत् प्रतीयते । अथवा सामायिकं यस्माद्वचनं 'प्रत्यक्षज्ञानिनः' केवलिनः, तत् केवलज्ञानमेव परप्रत्यायनमात्रव्यापारम्, यस्मात् केवलज्ञानप्रणयनात् द्रव्यश्रुतमपि प्रमाणम् ॥२६१०॥
___ यत एव च [१७२-०] ओधातिपच्चओ ति य मणिते तो तं पि पच्चयोऽभिहितं। ओधातितिगं व कधं तदभावे पच्चयो होज्ज ॥२६११॥
ओधातिपच्चयो ति य इत्यादि । अवध्यादिप्रत्यय इत्युक्ते, तदपि श्रुत. ज्ञानप्रत्ययादुक्त एव भवति, श्रुतज्ञानाभावे अवध्यादिप्रत्ययस्वरूपमेव न ज्ञायत इति ॥२६११॥
अथवाऽन्यथा प्रत्ययत्रयं वर्ण्यते-- आता 'गुरवो सत्थं ति पच्चया वाऽऽदिमो च्चिय जिणस्स । सप्पच्चक्खत्तणतो सीसाण तु तिप्पयारो वि ॥२६१२॥
१ सुमि को, सुयं पि हे त । २ °णिवज्जस्स को हे त । ३ पर्याय एवं प्रत्यय यदि इति प्रतौ । ४ जं ततो त । ५ तव्व को हे। ६ तम्पि को। ७ च को हे। ८ होज्जा को हे । ९ गुरुवो त । १० त्ति य त।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org