________________
४९४
- विशेषावश्यकभाष्ये
[नि० ५३२
व्यपदानमवखण्डनम् - कर्मनिर्जरणम्-कर्मविवेकः-जीवात् पृथकरणमित्यर्थः । कर्मविवेकः अशरीरतायाः कारणम् । अशरीरता हि अनायाधकारणम् । अशरीरं हि न प्रतपन्त्युपद्रवाः । अनाबाधत्वमवेदक (न त्वस्य कारणम् । अवेदनत्वम नाविलत्वस्य अनाकुलस्येत्यर्थः । अनाविलत्वं निरुजत्वमचलत्वस्य कारणम् , अचलत्वं शाश्वतत्वमव्याबाधसुखस्य-एवं ज्ञेयं क्रमशः पूर्व पूर्व परस्यापरस्य निमित्तम्-कारणमित्यर्थः । एवं कारणपदार्थो निरूपितः ॥२६००-२६०१॥
प्रत्ययनिरूपणार्थमुच्यते । पच्चयणिक्खेवो खलु दब्यम्मी तत्तैमासगोंदीओ । भाम्मि ओधिमादी तिविधो पगतं तु भावेणं ।५३२॥२६०२।। केवलणाणि ति अहं अरेहा सामाइयं परिकंधेन्ति । तेसि पि पच्चयो खल[१७१-द्वि०] सवण्णु ती णिसामन्ति ॥५३३।।
॥२६०३॥ पच्चयणिखेवो गाहा । केवलगाणि गाहा । प्रत्याययति विवक्षितपदार्थमिति प्रत्ययः, प्रत्यायनं वा प्रत्ययः, प्रतीयतेऽनेनास्मिन्निति वा प्रत्ययः, प्रतीयते वाऽस्मादिति प्रत्ययः, यथायोगम् ॥२६०२-३॥
नामादिषु प्रत्यये पु नाम-स्थापने पूर्ववत् । व्यतिरिक्तद्रव्यप्रत्यये विशेष उच्यते - दव्यस्स दव्यतो वा दम्वेण ये दव्वपच्चयो णेओ । तबिवरीतो भावे "सोऽवधिणाणादिओ तिविधो ॥२६०४॥
दव्यस्स गाहा । प्रत्ययो हेतुः समयः अवष्टम्भो लिङ्गं सम्प्रत्यय इति यावत् द्रव्यस्य प्रत्ययः प्रत्याय्यपुरुषस्य प्रतीतिरुत्पादनीयति सत्यमेतदित्यक्वोधः द्रव्यप्रत्ययः । अपकृ(हृ तद्रव्यैकदेशरिक्थप्रदर्शनात् द्रव्येण प्रत्ययः, कोशफालधरोदकविषादिना बाह्यलोकप्रतीतेन वा तप्तमाषकादिना त्रिसत्योच्चारणादिना येन प्रतीतिः प्रत्याय्यस्य भवति स द्रव्यप्रत्ययः । तद्विपरीत इति द्रव्यालम्बनं मुक्त्वा बाह्यलिङ्ग करणनिरपेक्षः आत्मस्वरूपावबोधः विविधोऽवधि-मनःपर्याय-केवलारख्यो भावप्रत्ययः । प्रकृतं सामायिकमुररीत्य भावप्रत्ययो व्याप्रियते ॥२६०४॥
केन प्रत्ययेन केन चावष्टम्भेन भाषतेऽन्निति आह.-..
१ व्यमी दी हा म । २ तन्नमा त। । गादो दी है। । ४ भावंमी दी हा म। ५ अरिहो को, अरिहा है । ६ कहेइ को हे त म, कहे ई दी हा । . पण तो हे त दी हा म । ८ मेति को मिति हे दी हा. मंति म । ९ व को हे त । १० सो वि हु नाणः हे ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org