________________
३७९
नि० ४५५ ]
शून्यवादनिषेधः। "लोके च यावती संज्ञा सामग्यामेव दृश्यते यस्मात् । तस्मान्न सन्ति भावाः भावेऽसति नास्ति सामग्री ॥२॥"२१५०॥ परभागादरिसणतो सव्वाराभागसुहुमतातो य । उभयाणुवलंभातो सव्वाणुवलद्धितो सुण्णं ॥२१५१॥
पर० गाहा । इह यदप्रत्यक्षं तदसदेव, अनुपलम्भात् खरविषाणवत् । दृश्यस्यापि च पर-मध्यभागयोरसत्त्वदर्शनात्, आराद् भागस्यापि च सावयवत्वात् पुनरन्यः खल्वाराद् भागस्तस्याप्यन्य इति सर्वारातीयस्यातिसूक्ष्मत्वादनुपलब्धिः । अतश्चो. भयभागाग्रहणात् सर्वानुपलब्धिरतश्च शून्यतानुमीयते । अभिमत च
"यावद् दृश्यं परस्तावद्भागः स च न दृश्यते ।
तेन ते नाभिलाप्या हि भावाः सर्वे स्वभावतः ।।" श्रूयन्ते च श्रुतौ भूतानीत्यतः संशयः ॥२१५१॥ ।
मा कुणे वियत्त ! संसयमसति ण संसयसमुब्भवो जुत्तो। खकुसुमखरसिंगेसु व जुत्तो सो थाणुपुरिसेसुं॥२१५२।।
मा कुण गाहा । व्यक्त मा कृथाः संशयम् । असति न संशयसम्भूतिरस्ति यथा खपुष्प-खरविषाणयोः । सत्येव हि संशयोऽनुरूपो यथा स्थाणु-पुरुषयोः ॥२१५२॥
को वा विसेसहेतू सव्वाभावे वि थाणुपुरिसेसु । संका ण खपुष्पादिसु विवज्जयो वा कधण्ण भवे ॥२१५३॥
को वा गाहा । को वात्र विशेपहेतुयेदसत्वसामान्ये स्थाणुपुरुषयोः संशयो न खरविषाण-खपुष्पयोः ? कथं समता न स्याद् विपर्ययो वेति ? ॥२१५३॥
पच्चक्खतोऽणुमाणादागमतो वा पसिद्धिरत्थाणं । सव्वप्पमाणविसयाभावे किध संसयो जुत्तो ॥२१५४॥
पच्चक्ख० गाहा । प्रत्यक्षादिप्रमाणाश्रया हि सिद्धि रिप्यतेऽर्थानां सर्वप्रमाणविषयाभावश्चाभिप्रेतः परस्येति कुतः संशयः ? ॥२१२४॥
जं संसयादयो णाणपज्जया तं च णेयसंवदं ।। सवण्णेयाभावे [१४१ द्वि०] ण संसयो तण ते जुत्तो ॥२१५५।।
जं सं० गाहा । इह संशयविपर्ययानध्यवसायनिर्णया विज्ञानपर्यायाः, यतस्तच ज्ञेयनिबन्धनमतः सर्व विषयाभावे न संशयादयो युक्त रूपाः ॥२१५५।।
१ कुरु को हे। २ ‘सेसु को हे। ३ कथं न को कहं न हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org