Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विनयदेवसूरि-माहात्म्यम् नव्यो नव्योऽभवत्स्नेहः पुत्रे पित्रोः क्षणे क्षणे। पितृपुत्रदशां वक्तुं नाशक्नोत्कोऽपि पण्डितः ॥ अपमाणे तथागाधे पुत्रप्रेमसरोवरे । पितरौ रसिकावास्तां हंसाविव निरन्तरम् ॥ ४४ ॥ श्रीमद्वासकुमारस्य दर्शने जनचेतसाम् । इच्छा न घटतेऽक्षीच्छा लभते च श्रमं न हि ॥४५॥ दिव्यं वासकुमारास्यपद्मं लोका व्यलोकयन् । वरं रूपरसं चैव प्रापिबन् भ्रमरा इव ॥ ४६
एवं वासकुमारजन्मन इमं रम्योत्सवं सोत्सवाः, श्रुत्वा धर्मविधायिनो भविजना धर्मे कुरुध्वं रतिम् । श्रीमद्वासकुमार उत्तमकुलं पुण्याद् यथा चोत्तमाद्,
दिव्याः सम्पद आपदापदयुता यूयं यथा प्राप्नुत । इति श्री बृहत्खरतरगच्छीय श्रीजिनराजसरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातशाह श्रीअकबर प्रदत्तजगद्गुरु-बिरुद. धारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिशाहि श्रीअकब्बरसभासंलब्ध दुर्वादिजयवाद भट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीर प्रदत्तमहातपाविरुधारि श्रीविजयदेवसूरीश्वर गुणवर्णन प्रबन्धे श्रीविजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसूरि जन्मोत्सववर्णनो नाम प्रथमः सर्गः ॥१॥
४३-पितृपुत्रदशां पिता च पुत्रश्च पितृपुत्री तयोर्दशां व्यवस्था पितृपुत्रदशाम् । तत्र पितृदशां नवनवोत्सवकरणभव्यभव्यबहुमूल्यवत्रसुवर्णालकारादिवितरणपरमप्रेमधरणलक्षणाम् । पुत्रदशां विविधचाणक्यादिराजनीतिशास्त्राद्यध्ययनविनयशीयौदार्यसौन्दर्यशौण्डीर्यचातुर्यादिलक्षणामवस्थाम् । कोऽपि पण्डितो वक्तुं न शक्नोत् न समर्थोऽभवत् ।
४४-हंसाविति हंसश्च हंसी च इति द्वन्द्वे पुमान् बिया इत्यनेन सहोती पुंसः शेषे हंसौ इति सिद्धिः । यथा ब्राह्मणश्च ब्राह्मणी च ब्राह्मणी तथा हंसावित्यपि ।
४५-घटचेष्टायां चेष्टा ईहा भ्वादी घटादिः, घटादीनामनेकार्थत्वादीहार्थोऽपि घटतिर्धातुरत्र हीनाओं ज्ञेयो न ईहार्थः । ततोऽयमर्थः-न घटते वर्धते इत्यर्थः ।
४७-आपदिति मातृ व्याप्तौ लित्वादमत्यये प्रथमपुरुषेकवचने सिद्धमित्यर्थः।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 140