Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 8
________________ सर्गः ] बिजयदेवसूरि-माहात्म्यम् पत्युक्तं वच ईदृक्षं श्रुत्वा सा मुमुदे हृदि । मम स्वामिन् सुतो भावी वेनीति प्रागचिन्तयम् ॥ पत्या सार्धं शुभान् भोगान् देवतास्पर्द्धयेव किम् । शुआना प्राधरगर्भं सा ततस्ततचित्तत् ॥ उत्सवेन सुखेनापि निराबाधतया तथा । तस्याः कुक्षौ सरस्यां सन् गर्भः पद्म इवैधत ॥ १६ ॥ धर्मकर्माणि कुर्वन्ती पूरयन्ती च दोहदान् । गर्भयोग्यानि भोज्यानि भुञ्जाना चाप्यवर्तत ॥ चतुस्त्रिंशत्तमे वर्षे षोडशस्य शतस्य हि । पौषे मासे सिते पक्षे त्रयोदृश्यां दिने रवौ ॥१८॥ नक्षत्रे रोहिणीनानि सम्यग्योगसमन्विते । सर्वास्वारा सौम्यासु निष्पन्नानावनीः च ॥ स्थिरे वरे वृषे लग्ने शोभमाने शुभग्रहैः । उच्चस्थानस्थितेः सर्वैः स्वस्वस्वामिभिरीक्षिते ॥२०॥ परिपूर्ण तथा सार्धं नवमासावधौ शुभे । पुत्रं प्रास्तूत सा पूतजाग्रज्ज्योतिस्तनूदयम् ॥ २१ ॥ निरातङ्का निरातङ्कं निश्शोका शोकवर्जितम् । सुभगा सुभगं सौम्या सौम्याकारं सुखाकरम् ॥ — षडूभिः कुलकम् । स सदोचितबालाख्यगोत्रोदयकरोऽसुरत् । जगज्ज्योतिष्करोऽगारान्तःस्थः खस्थोऽर्यमेव हि ।। अगायन् जन्मयोग्यानि गीतानि च सुयोषितः । वाद्यान्यऽवादयच श्रेष्ठी विविधानि दिवानि ॥५॥ ततः प्रातः स्थिरश्रेष्ठी समाहूय महाजनान । तेभ्योऽदान्नालिकेराणि सुतजन्म प्रियं यतः ॥ २५ अभूज्जयजयाकारः सारः श्रेष्ठिस्थिरालये । आत्मसम्बन्धिनश्चान्ये लोका उदसवस्तदा ॥ २६ १५- भोगान् शब्दादीन् भुञ्जाना अनुभवन्ती । भुजाना इत्यत्र ' ताच्छील्यवयोवचनशक्तिषु चानश् ' ' इत्यानश् ताच्छील्यार्थः । १६- पद्मशब्दः कमलवाची पुंनपुंसकलिङ्गत्वात् पुल्लिङ्गो व्याख्येयः । १७ - दोहदशब्दः पुंनपुंसकः । २३- स बालोऽसुरत् अशोभत । कथंभूतो बालः ? सदा उचितबालाख्यगोत्रोदयकरः । कथंभूतः स बालः ? अगारान्तःस्थः सन् गृहमध्यस्थितः सन् जगज्ज्योतिष्करः । क इव ? उत्प्रेक्ष्यते; हि निश्चयेन खस्थः आकाशस्थितः अर्थमेव सूर्य इव । कथंभूतः सूर्यः १ सदा उचितबालाख्यगोत्रोदयकर :- उचिता योग्या बालः प्रथमतस्तत्कालोद्गतत्वात् बालक इत्याख्या नाम यस्य सः उचितबालाख्यः तत्कालोद्गतः सूर्यो बाल एवोच्यते । गोत्रे अर्थाद् उदयाचले । उदयं उद्गमनं करोतीति गोत्रोदयकरः । उचितबालाख्यश्चासौ गोत्रोदयकरश्चेति कर्मधारये उचितबालाख्यगोत्रोदयकरः । पुनः कथंभूतः अर्थमा ? जगज्ज्योतिष्करः । 1 २५- तेषां सन्नालिकेराणि, ददौ यद्वल्लभः सुतः - इति पाठान्तरम् । २६-सुं प्रसवैश्वर्ययोः, गतावप्येके; भ्वादि: परस्मैपदी इत्यस्य अनद्यतनी प्रथमपुरुषबहुवचनं उदसवन् उत्स्रवान् चकुरित्यर्थः । तद्दर्शयति

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 140