Book Title: Vijaydev Mahatmyam Author(s): Jinvijay Publisher: Jain Sahitya Sanshodhak Samiti View full book textPage 7
________________ श्रीवल्लभोपाध्यायविरचित [प्रथमः माहात्म्यं पूर्वसूरीणामतिशेतेऽत्र भूतले । विजयदेवसरीणां माहात्म्यमधिकं सदा ॥२॥ विजय माहात्म्यं वर्ण्यतेऽत्र यतोऽद्भुतम् । जियदेवमाहात्म्यं नाम काव्यं ततः स्मृतम् ॥३॥ विजयदेवमाहात्म्यनाम काव्यं कविप्रियम् । श्रीवल्लभ उपाध्यायः कुरुते स्वार्थसिद्धये ॥४॥ विजयदेवसूरीणां प्रगुणाः सद्गुणा गुणाः। विदिता अवदाताश्च प्रेरयन्ति यतोऽत्र माम् ॥५॥युग्मम् भास्वच्छ्रीभारते क्षेत्रे, धरालङ्करणं सदा । पुराणां भाति राजेव श्रीईडरपुरं पुरम् ॥६॥ तत्र श्रेष्ठी स्थिरो नाम श्रेष्ठश्रेष्ठिशिरोमणिः । ऋद्धिमान भूपतेः प्रेष्ठः श्रेष्ठः सर्वप्रतिष्ठया ॥७॥ रूपानान्नी मुरूपा स्त्री तस्यासीच्छुभलक्षणा । विनयादिगुणोपेता रूपवत्स्वप्रियमिया ॥८॥ एतौ जायापती भोगान् शचीशकाविवानिशम् । अभुजातामयुञातां रतिप्रीतीव चेतसि ॥९॥ मुखहप्तेकदा रूपा स्वमे सिंहं व्यलोकयत् । एतत्प्रभावान्मे पुत्रो भावी चेति व्यचिन्तयत् ॥१०॥ उत्थाय प्रातराहेति पति पति पतिव्रता । अद्यापश्यमहं रात्रौ स्वप्ने सिंहं सह श्रिया ॥११॥ इति श्रुत्वा वचस्तस्याः स्थिरः स्थिररतिः पतिः। अभवच्छुभवद्वाक्यं श्रुत्वा प्रीतो भवेन कः?|| पतिः पत्नी प्रति माह तव पुत्रो भविष्यति । सूर्यवद्भुवि तेजस्वी सर्वसर्वसहाधिपः ॥१३॥ ५-प्रगुणाः प्रकृष्टाः अन्यसूरिजनापेक्षया, क्रोधाक्रोशगालिप्रमुखप्रतिकूलदोषरहितत्वात् , एकैकतोऽधिकत्वाच; गुणा भयानकमनोहरत्वादयो येषां ते प्रगुणाः । गुणाः शौर्यौदार्यसौन्दर्यशौण्डोर्यादयः । 'पडिरूवो १ तेयस्सी २' इत्यादयः षट्त्रिंशत्सूरिसम्बन्धिनः, सप्तविंशतिः साधुसम्बन्धिनो वा । कथंभूताः गुणाः सद्गणाः सन्तो विद्यमानाः सत्याः प्रशस्याः अचिंता वा; पूर्वसूरीणां अपरसाधुजनानां च गुणानामपेक्षया सुभगत्वादयस्तत्तद्गुणप्रतिकूलाऽसुभगत्वादिदोषरहितत्वात् ; येषां ते सद्गुणा इति गुणविशेषणं युक्तम् ॥५॥ ६-श्रीईडरपुरमित्यत्र सन्ध्यऽकरणं प्रकटावबोधार्थ, सन्धौ हि डरपुरमित्यनिष्टनामाशानिरासाथै च विवक्षितत्वात् सन्धेः, 'भो भगो अघो अपूर्वस्येति' पाणिनीयसूत्रवत् ; 'असल समाना' इति सारस्वतसूत्रादिवत् । अहं पूर्वो अहं पूर्व इत्यहपूर्विका खियामिति गौडवचनवच । न चात्र 'संहितैकपदे नित्या' इति कथनात् श्रीईडरपुरमित्यकपदत्वात् नित्यसन्धिविधानाशका करणीया; भो भगो अघो अपूर्वस्येत्यस्यैव एकपदत्वे सत्यपि सन्धेरकरणे ज्ञापकात्। श्रीईडरपुरं पुरं क इव राजेव । कथंभूतो राजा ? सदा धरालकरणं पृथिव्या अलकारः । अलकरणशब्दस्य अजहल्लिङ्गत्वात् राज्ञो विशेषणे नपुंसकवचनं न दुष्टम् । पुरविशेषणे तु पुरशब्दस्य नपुंसकत्वात् नपुंसकवचनं विशिष्टमेवेति ॥६॥ ८-रूपवत् सौन्दर्यमिव नाणकमिव वा यथा सौन्दर्य नाणकं वा बल्लभं भवेत् तथा रूपा नानी स्यपि। १३-सर्वस्याः सर्वसहायाः पृथिव्याः अधिपः स्वामी सर्वसर्वसहाधिपः ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 140