Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 350
________________ संभोगाविष्करणम्, प्रियप्रस्थानावस्थाकथनम् मन्मथविधावालम्ब्य धैर्य महत् । अस्माकं तु तदीयपाणिकमलेनोन्मोचयत्यंशुकं कोऽयं का वयमत्र किं च सुरतं नैव स्मृतिर्जायते ॥ २० ॥ कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात्तद्वासः श्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ काऽस्मि रतं नु वा कथंमिति स्वल्पापि मे न स्मृतिः ॥ २१ ॥ गाढाश्लेषविशीर्णचन्दनरजःपुञ्ज प्रसारादियं शय्या संप्रति कोमलाङ्गिः परुषेत्यारोप्य मां वक्षसि । गाढौष्ठग्रह पूर्वमाकुलतया पादाग्र संदंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ २२ ॥ निद्रातुन्दिलशोणलोचनयुगं दत्ताङ्कदन्तच्छदं पर्यस्तालकवलि घर्मपटल प्रामृष्टपत्रावलि । जृम्भाजृम्भितसीधुसौरभमिलद्भङ्गीभिरङ्गीकृतस्तोत्रं शंसति वक्त्रमेव रजनी वृत्तान्तमेणीदृशः ॥ २३ ॥ - ३२९ दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः ॥ ११ ॥ पितुरधिपुरं त्यक्ताः सख्यः समं निजबान्धवैर्न च परिचितिर्जाता पत्युर्गृहेऽपि कयाचन । कतिपयदिनोदञ्चत्प्रेम्ण प्रिये प्रवसत्यसौ कथयतु मनस्तापं कस्मै नवं नवकामिनी ॥ १२ ॥ सान्त्वप्रायैः प्रणयवचनैर्गन्तुमापृच्छमाने कान्ते तिर्यङ्कमितवदना रुन्धती बाष्पपूरम् । दीर्घोच्छ्रासस्थगनविकलोत्कम्पि नासापुटान्ता संख्याशून्यं गणयति मृगीलोचना कङ्कणानि ॥ १३ ॥ यामी - त्युक्ते हृदयपतिना पञ्चशः शङ्खभूषाः स्वैरं स्वैरं झटिति गलिताः पाणिपङ्केरुहायात् । नो यास्यामीत्यनुपदमिमां वाचमाकर्णयन्त्यास्तन्व्याः शेषा अपि चटचटेत्येव भङ्ग समीयुः ॥ १४ ॥ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले बलात्तल्पान्तःस्थितया तया जनमलं दृष्ट्वा चिरं मुग्धया | सोच्छ्रासं दृढमन्यु निर्भरगलद्वाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥ १५ ॥ दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो नि-र्व्याजमालिङ्गितः । इत्याक्षिप्य समस्तमर्थमघृणो गन्तुं प्रवृत्तः शठः पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ १६ ॥ लग्ना नांशुकपल्लवे भुजलता नो द्वारदेशेऽर्पिता नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः । काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ १७ ॥ दूरं सुन्दरि निर्गतासि नगरादेष द्रुमः क्षीरवानस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम् । गाढालिङ्गनवक्रितस्तनतटाभोगस्फुटत्कचुकं वीक्ष्योरः स्थलमश्रुपूरितदृशः प्रस्थानभङ्गः कृतः ॥ १८ ॥ यामि प्रेयसि वारिदागमदिने जानीहि मामागतं चिन्तां चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि । निःश्वासैः पवनायितं वरतनोरङ्गैः कदम्बायितं कान्त्या केतकपत्रकायितमहो दृग्भ्यां पयोदयितम् ॥ १९ ॥ यामीत्यप्रियवादिनि प्रियतमे मुद्राभवत्कङ्कणं केलीसद्मबहिर्गतैकचरणे भूमौ शरीरस्थितिः । अन्तर्धानगते पुनर्मृगदृशो वाच्या किमन्या दशा लाजास्फोट इव स्फुटत्यविरलं हारोऽपि वामभ्रुवः ॥ २० ॥ प्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥ २१॥ गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ॥ २२ ॥ चिन्तामोहविनिश्चलेन मनसा मौनेन प्रियप्रस्थानावस्थाकथनम् मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूच्छिता । बुद्धा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥ १ ॥ यामीति प्रियपृष्टायाः प्रियायाः कण्ठलग्नयोः । वचोजीवितयोरासीद्बहिर्निःसरणे रणः ॥ २ ॥ बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति । यातं दंपत्योर्दिनमनुगमनावधि सरस्तीरे ॥ ३ यामि न यामीति धवे वदति पुरस्ता - रक्षणेन तन्वङ्गयाः । गलितानि पुँरोवलयान्यपराणि तथैव दैलितानि ॥ ४॥ मनसि निविशते स कोऽपि तापः प्रणयिनि बाहुलतान्तरस्थितेऽपि । सरसिजमकरन्दगन्ध - बन्धुर्वहति यदेष शनैः शनैः समीरः ॥ ५ ॥ कान्ते कथंचि द्वदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ततः समालोक्य कदागतोऽसीत्याख्याय कान्ता मुदमाससाद ॥ ६ ॥ लज्जां विहाय रुदितं विधृतः पटान्ते मा गास्त्वमित्युदितमङ्गुलयो मुखेऽस्ताः । स्थित्वा पुरः पतितमेव निवर्तनाय प्राणेश्वरे व्रजति किं न कृतं कृशाङ्गया ॥ ७ ॥ गन्तुर्विवस्वदुद्ये हृदयेश्वरस्य प्रत्यूषपक्षिनिनदश्रमजातकम्पा । निद्रां जलैरशिशिरैर्नयनाब्जजातैः कान्ता तदंसशिखरे पतितैर्जहार ॥ ८ ॥ प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयांचकार । आली पुनर्निभृतमेत्य लतानिकुञ्जमुन्मत्तकोकिलकलध्वनिमाततान ॥ ९ ॥ गन्तुं प्रिये वदति निःश्वसितं न दीर्घमासीन्न वा नयनयोर्जलमा विरासीत् । आयुर्लिपिं पठितुमेर्णंदृशः परंतु भालस्थलीं किमु करः समुपाजगाम ॥ १० ॥ प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेण या किमुत सकले यातेऽप्यह्नि प्रिय त्वमिष्यसि । इति १ प्रवासगमनम्. '२ जागृता. ३ अग्रिमकङ्कणानि. ४ भग्नानि ५ कुशोदरी. ६ हरिणाक्ष्याः. ४२ सु. र. भो.

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524