Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 501
________________ सुभाषितरत्नभाण्डागारम् अपुत्रस्य गृहं शून्यम् । अपृष्टीऽपि हितं ब्रूयात् यस्य नेच्छेत् पराभवम् । अपेक्षन्ते हि विपदः किं पेलवमपेलवम् । (क० स०)। अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म। | (कु० सं०) अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते।। अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः। (क० स०) अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः। (प० त०) अबला यत्र प्रबला । अबुद्धा चित्तमप्राप्यं विनम्भं प्रभविष्णुषु । (क० स०) अभक्ष्यं मन्यते भक्ष्यम् । अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः। अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु । (र० वं०) अभोगस्य हतं धनम् । (प० त०) अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे । (कु० सं०) अभ्यागतो यत्र न तत्र लक्ष्मीः । अमर्षणः शोणितकाङ्क्षया कि पदास्पृशन्तं दशति द्विजिह्वः। (र० वं०) अमृतं क्षीरभोजनम् । अमृतं प्रियदर्शनम् । अमृतं राजसंमानम्। अमृतं शिशिरे वह्निः। अमृतायते हि स्तुतयः सुकर्मणाम् । (कि० अ०) अमोघो देवतानां च प्रसादः किं न साधयेत् । (क० स०)। अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते। (र० वं०) | अयमश्वः पताकेयमथवा वीरघोषणम् । अयशोभीरवः किं न कुर्वते बत साधवः। (क० स०) अयाच्यो नार्तानामनुपकरणीयो न महताम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते । (कि० अ०) अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः। अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि । (नै० च०) अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधि__दूषणानि । (कि० अ०) अरुंतुदत्वं महतां ह्यगोचरः।। (कि० अ०) अर्थभारवती वाणी भजते कामपि श्रियम् । अर्थमनर्थ भावय नित्यं नास्ति ततः सुखलेशः सत्यम्। । (च० पं०) अर्थार्थी जीवलोकोऽयं । (प० त०) अर्थातुराणां न गुरुर्न बन्धुः। अर्थिनि जने त्यागं विना श्रीश्च का। अर्थेन बलवान् सर्वः। (प० त०) अर्थो हि कन्या परकीय एव । (अ० शा०) अर्धमात्रालाघवेनापि पुत्रोत्सवं मन्यन्ते वैयाकरणाः । अर्को घटो घोषमुपैति नूनम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्त । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महास्मनाम् । (कु० सं०) अल्पबीजं हतं क्षेत्रम् । अल्पविद्यो महाग:। अल्पश्च कालो बहवश्व विघ्नाः । अल्पसत्त्वेषु धीराणामवज्ञैव हि शोभते । (क. स.) अल्पस्य हेतोबहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् । (र० ब०) अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी। अल्पीयसोऽप्यामयतुल्यवृत्तमहापकाराय रिपोर्विवृद्धिः। (कि० अ०) अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः । (कि० अ०) अवस्तुनि कृतक्लेशो मूर्यो यात्यवहास्यताम् । (क० स०) अविचार्य प्रभूणां हि शुचेर्वाक्यं स्वमत्रिणः। (क० स०) अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः। (कि० म०) अविद्याजीवनं शून्यम् । अविनीता रिपुर्भार्या । अविश्रमो लोकतन्त्राधिकारः। (अ० शा०) अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः। (भर्तृ०) अध्याक्षेपो भविष्यस्याः कार्यसिद्धेहि लक्षणम् । (र० ०) अव्यापारेषु व्यापार यो नरः कर्तुमिच्छप्ति। (प० त०) अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः । (कु० सं०) अशीलं कस्य नाम स्यान्न खलीकारकारणम् । (क० स०) अशीलं कस्य भूतये। (क० स०) अशीलस्य हतं कुलम् । अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता । (कु० सं०) अभुते स हि कल्याणं व्यसने यो न मुह्यति । (क० स०) अश्रेयसे न वा कस्य विश्वासो दुर्जने जने। (क० स०) अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । (प० त०) अश्वा यस्य जयस्तस्य। (चा० नी०) अश्वा यस्य यशस्तस्य । असंतुष्टा द्विजा नष्टाः । (प० त०) असन्मैत्री हि दोषाय कूलच्छायेव सेविता। (कि० अ०) असंभाव्या अपि नृणां भवन्तीह समागमाः। (क० स०)

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524