Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नखण्डमञ्जूषा
ख(फोटाटोपो भयंकरः।
(प० त०) खण्डिता एव शोभन्ते वीराधरपयोधराः । खलसङ्गेऽपि नैष्ठ्यं कल्याणप्रकृतेः कुतः।। गणयन्ति न राज्यार्थेऽपत्यस्नेहं महीभुजः। (क० स०) गतं न शोचामि कृतं न मन्ये । गतस्य शोचनं नास्ति । गतानुगतिको लोको न लोकः पारमार्थिकः । गन्तव्यं राजपथे। गहना कर्मणो गतिः।
(भ० गी०) गुणलुब्धाः स्वयमेव संपदः।
(कि० अ०) गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ।
(कि० अ०) गुणान्भूषयते रूपम् । गुणार्जुनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसा. धवः।
(कि० अ०) गुणाः पूजास्थानं गुणिषु न च लिङ्गंन च वयः । (उ०च०) गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः।। गुणी गुणं वेत्ति न वेत्ति निर्गुणः । (म० स्मृ०) गुणविहीना बहु जल्पयन्ति । गुरुतां नयंन्ति हि गुगा न संहतिः । (कि० अ०) गुर्वपि विरहदुःखमाशाबन्धः साहयति । (अ० शा०) गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः।
(शि० व०) गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः । (क० स०) प्रसते हि तमोपहं मुहुर्न तु राहाहमहर्पतिं तमः।।
(शि० व०) ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।
(शि० व०) ग्रामनाशाय कुअरः।
(वृ. चा०) ग्रामस्याथै कुलं त्यजेत् ।
(प० त०) प्रावाणोऽप्यातां सम्यग्भजन्त्यभिमुखे विधौ । (क० स०)। ग्लपयति यथा शशाईन तथा हि कुमुहती दिवसः।।
(अ. शा०) घनाम्बुना राजपथे हि पिच्छिले क्वचिदुधैरप्यपथेन । गम्यते।
(नै० च०) घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं नहि ब्रजति विकारमम्बुधः।
(शि० व०) प्रन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ।
(कि० अ०) चकास्ति योग्येन हि योग्यसंगमः। चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च। (यो० वा०) | चक्षुःपूर्त न्यसेत्पादम्।
(चा० नी०) चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः । .चपलौ किल शूराणां रणे जयपराजयौ। (क० स०)
चाण्डालः पक्षिणां काकः । चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् । चाराजानन्ति राजानः। चित्तं जानाति जन्तूनां प्रेम जन्मान्तरार्जितम् । (क० स०) चित्तमेतदमलीकरणीयम् । चित्ते वाचि क्रियायां च साधूनामेकरूपता। चित्रा गतिः कर्मणाम् । चिन्ता जरा मनुष्याणाम् । चिन्तासमं नास्ति शरीरशोषणम् । चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । (अ० शा०) चोराणामनृतं बलम् । चौरे गते या किमु सावधानम् । छाया न मूर्च्छति मलोपहतप्रसादे शुद्ध तु दर्पणतले सलभावकाशा।
(अ० शा०) छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः।
(र. वं.) छायेव मैत्री खलसजनानाम् ।
(प० त०) छिद्रेष्वना बहुलीभवन्ति ।
(प० त०) जगति बहुमताः कस्य नाभ्यर्चनीयाः। जठरं को न बिभर्ति केवलम् । जनानने कः करमर्पयिष्यति ।
(नै० च०) जनानुरागप्रभवा हि संपदः। जनो बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः। (क० स०) जपतो नास्ति पातकम् । जरा रूपं हरति । जलदसमय एष प्राणिनां प्राणभूतः। (का० दा०) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । जातं तु जातं न पुनः प्रयाति । जातस्य हि ध्रुवो मृत्युः।
(यो० वा.) जातापत्या पतिं द्वेष्टि। जातौ जातौ नवाचाराः। जानन्ति पशवो गन्धात् । जामाता दशमो ग्रहः। जायन्ते बत मूढानां संवादा अपि तादृशाः। (क० स०) जारस्त्रीणां पतिः शत्रुः। जितक्रोधेन सर्व हि जगदेतद्विजीयते । (क० स०) जितक्रोधो न दुःखस्यास्पदीभवेत् ।। (क० स०) जितशान्तेषु धीराणां नेह एवोचितोऽरिषु । (क० स०) जिह्वालक्षशतैककोटिनियमो नो दुर्जनानां मुखे। जीवन्तमेव कुष्णाति काकीव कुकुटुम्बिनी। (क० स०) जीवन्तोऽसति मूढोऽर्थान्यावदर्थैः स नोज्झितः। (क० स०) जीवन्हि धीरोऽभिमतं किं नाम न यदाप्नुयात् । (क० स०) जीवो जीवस्य जीवनम् । ज्ञातास्वादो विवृतजघना को विहातुं समर्थः। (मे० दू०)
(नै० च०)
Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524