Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 520
________________ सुभाषितरत्नखण्डमञ्जूषा (भर्तृ०) स्वगृहे पूज्यते मूर्खः । स्वग्रामे पूज्यते प्रभुः। स्वचित्तकल्पितो गर्वः कस्य केन प्रशाम्यति । (५० त०) | स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते। (कु० सं०) स्वजनालोकवातेद्धो दुःखाग्निः कं न तापयेत् । (क० स०) स्वजातीयविघाताय माहात्म्यं दृश्यते नृणाम् । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता। । (शि० व०) स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा। स्वदेशे पूज्यते राजा। (चा० नी०) स्वधर्मे निधनं श्रेयः परधर्मो भयावहः। (भ० गी०) स्वधियो निश्चयो नास्ति यस्य स भ्रमति स्वयम् । (दृ० श०) स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् । (क० स०) स्वपदाच्यवमानस्य कस्याज्ञां को हि मन्यते । (क० स०) स्वभाव एवैष परोपकारिणाम् । स्वभावतः सर्वमिदं हि सिद्धम् ।। स्वभावस्वच्छानां पतनमपि भाग्यं हि भवति । स्वभावो दुरतिक्रमः। (प० त०) स्वभावो यादृशो यस्य न जहाति कदाचन । (चा० नी०) स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् । स्वयशांसि विक्रमवतामवतां न वधूष्वधानि विमृशस्ति । धियः । (कि० अ०) स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते। (र० वं०) स्ववीर्यगुप्ता हि मनोः प्रसूतिः। (र०५०) स्वसुखं नास्ति साध्वीनां तासां भर्तृसुखं सुखम् । (क० स०) स्वस्थे को वा न पण्डितः। . (प० त०) स्वस्थे चित्ते बुद्धयः संभवन्ति । स्वादुभिस्तु विषय«तस्ततो दुःखमिन्द्रियगणो निवार्यते (र० वं०) स्वाधीनकुशलाः सिद्धिमन्तः। (अ० शा०) स्वाधीना दयिता सुतावधि । स्वामापदं प्रोज्य विपत्तिमनं शोचन्ति सन्तो ह्युपकारिपक्षम् । (कि० अ०) | स्वामिन्यसाध्यव्यसने सुखं सन्मत्रिणां कुतः। (क० स०) । स्वामिवत्पञ्च वर्षाणि दश वर्षाणि दासवत् । प्राते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ (प्र० भ०) स्वाम्यायत्साः सदा प्राणा भूत्यानामर्जिता धनैः। (५० त०) स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति । (शि० व०) स्खेनानलस्य स्फुटतां यियासोः फूत्कृस्यपेक्षा कियती खलु स्यात् । (शि० व०) हंसो यथा क्षीरमिवाम्बुमध्यात् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयन्त्यपः। (अ० शा०) हंहो पनसरः कुतः कतिपयैहंसैविना श्रीस्तव । हतं ज्ञानं क्रियाहीनम् । (वृ० चा०) हतमश्रोत्रियं श्राद्धं ।' (चा० नी०) हतं सैन्यमनायकम् । (चा० नी०) हतश्चाज्ञानतो नरः। (वृ० चा०) हतविधिपरिपाका केन वा लङ्घनीयः। (मे० दू०) हरति मनो मधुरा हि यौवनश्रीः । (कि० अ०) हसन्नपि नृपो हन्ति । हस्तस्य भूषणं दानम् । हस्तौ दानविवर्जितौ। (वृ० चा०) हा कष्टं खलु वर्तते कलियुगे धन्या नराः सजनाः। हास्याहते किमन्यत्स्यादतिलौल्यवां फलम् । (क० स०) हा हा तथापि विषयान जहाति चेतः। (भर्तृ०) हिंसा बलमसाधूनां । - (म० भा०) हितप्रयोजनं मित्रम् । हितभुमितभुक शाकभुक् । हितमारण्यमौषधम् । हितं मनोहारि च दुर्लभं वचः। (कि० अ०) हितैषिणः सन्ति न ते मनीषिणः । हितोपदेशो मूर्खस्य कोपायैव न शान्तये। (क० स०) हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते.........मित्राणि । (र० के०) हीयते हि मतिस्तात हीनैः सह समागमात् ॥ (हि०) हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा। (र० व०) होतारमपि जुह्वन्तं स्पृष्टो दहति पावकः। (प० त०) ह्यर्थो हि लोके पुरुषस्य बन्धुः। (भर्तृ०) हृदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः । (नै० च०) इति सुभाषितरत्नखण्डमञ्जूषा संपूर्णा ॥

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524