Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
ग्रन्थसमाप्तिः इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यम् । विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥ । अस्थाभ्यासाद्वन्थवर्यस्य शिष्यः सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः। अर्थ कामं वेत्ति धर्म च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि ॥
शास्त्राब्धि सकलं विलोड्य नितरां ग्रन्थः कृतोऽयं मया
लोकानन्दकरः समस्तसुकलासंतानजैवातकः । अस्यास्याद्य सुभाषितामृतरसानानन्दपूर्णान्तराः
सन्तः संप्रति नाकवासनिरतान्देवान्हसन्तु ध्रुवम् ॥ .
विज्ञप्तिः
दृष्टं किमपि लोकेऽस्मिन्न निर्दोष न निर्गुणम् । आवृणुध्वमतो दोषान्विवृणुध्वं गुणान्बुधाः।
आशीर्वचनम्
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखभाग्भवेत् ॥
Page Navigation
1 ... 519 520 521 522 523 524