Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 519
________________ २० सुभाषितरत्नभाण्डागारम् सहसा विदधीत म क्रियामविवेकः परमापदां पदम् । (कि० अ०) सहसा हि कृतं पापं कथं मा भूद्विपत्तये। (क० स०) सहसि पवगैरूपासितं नहि गुनाफलमेति सोष्मताम् ।। (शि० व०) सहस्रेषु च पण्डितः। सहायकृष्टमहतां न संगतं भवन्ति गोमायुसखा न दन्तिनः। (कि० अ०) सागरं वर्जयित्वा कुत्र महानद्यवतरति। (अ० शा०) साधनेषु हि रतरुपधत्ते रम्यतां प्रियसमागम एव । (कि० अ०) साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः। _ (नै० च०) साधुः सीदति दुर्जनः प्रभवति प्रासे कलौ दुर्युगे। साधूनां दुर्जनाद्भयम् । (प० त०) साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः । साध्यासाध्यविचारं हि नेक्षते भवितव्यता। (क० स०) सानुकूले जगनाथे विप्रियः सुप्रियो भवेत् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः। (शि० व०) सारं गृह्णन्ति पण्डिताः। साहसं नैरपेक्ष्यं च कितवानां निसर्गजम् । (क० स०) सिते हि जायेत शितेः सुलक्ष्यता। (नै० च०) सिद्धिं वा यदि वाऽसिद्धिं चित्तोरसाहो निवेदयेत् । (प० त०) सिध्यन्ति कुत्र सुकृतानि विना श्रमेण । .. सीमन्तिनीनां कान्तोदन्तः सुहृदुपगतः संगमाकिंचिदूनः। (मे० दू०) सुकविता यद्यस्ति राज्येन किम् । सुकृती चानुभूयैव दुःखमप्यनुते सुखम् । (क० स०) सुखं च मे शयनं च मे। सुखमास्ते निःस्पृहः पुरुषः। सुखार्थिनः कुतो विद्या। सुवप्तमपि पानीयं शमयत्येव पावकम् । (प० त०) सुदुर्ग्रहान्तःकरणा हि साधवः । (कि० अ०) सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे । (कि० अ०) सुपर्वणो हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः । (शि० व०) सुरेषु हि श्रद्दधता नभस्या सर्वार्थसियङ्गमिथः समस्या । ' (शि० व०) सुलमा रम्यता लोके दुर्लभं हि गुणार्जनम् । (कि० अ०) सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता। . (कि० अ०) सुहृदर्थमीहितमजिअधियां प्रकृतर्विराजति विरुद्धमपि । .. (शि० व०) । सूर्यापायेन खलु कमलं पुष्यति स्वामभिख्याम् । (मे० दू०) सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा । (र० ६०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः। (भर्तृ०) सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः । स्तवे रवेरप्सु कृताप्लवैः कृते न मुदती जातु भवेत्कुमुद्वती। (नै० च०) स्तोत्रं कस्य न तुष्टये। (कु० सं०) स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः। स्त्रियो नष्टा ह्यभर्तृकाः। (वृ० चा०) स्त्रियो यथा विचेष्टन्तां निष्कम्पं हि सतां मनः । (क० स०) स्त्रीचित्तमहो विचित्रमिति । (क० स०) स्त्रीचित्तस्येव देवस्य को वेत्ति गहनां गतिम् । (क० स०) स्त्रीणां पतिः प्राणा न बान्धवाः। (क० स०) स्त्रीणां प्रियालोकफलो हि वेषः। (कु० सं०) स्त्रीणां भावानुरक्तं हि विरहासहनं मनः। (क० स०) स्त्रीणामलीकमुग्धं हि वचः को मन्यते मृवा । (क० स०) स्त्रीणामायं प्रणयवचनं विभ्रमो हि प्रियेषु । . (मे० दू०) स्त्रीपुमानित्यनास्थैषा वृत्तं हि महितं सताम् । (कु० सं०) स्त्री पुंवञ्च प्रभवति यदा तद्धि गेहं विनष्टम् । स्त्रीबुद्धिः प्रलयावहा। (का० नी०) स्त्रीमिः कस्य न खण्डितं भुवि मनः। (भर्तृ०) स्त्रीवचः प्रत्ययो हन्ति विचारं महतामपि। (क० स०) स्त्री विनश्यति रूपेण । (शा०प०) स्त्रीषु वाक्संयमः कुतः। (क० स०) स्खीवनर्गलचेष्टासु कस्येच्छा नोपजायते। . (क० स०) स्थातुं नियोक्तनहि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन । (र०वं.) स्थितः पृथिव्या इव मानदण्डः। (कु० सं०) स्थिरा शैली गुणवतां । (कुव० न०) नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्क्वचित् । स्निग्धमुग्धा हि सस्त्रियः। (क० स०) स्निग्धो हि विरहायासे साधुवाद ददाति किम् । (क० स०) खुषात्वं पापाना फलमधनगेहेषु सुदृशाम् । नेहमूलानि दुःखानि । (म० भा०) स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तु न्युपचितरसाःप्रेमराशीभवन्ति । (मे० दू०) नेहः खलु पापशङ्की। (अ० शा०) स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः। (नै० च०) स्पृशन्यास्तारुण्यं किमिव नहि रम्यं मृगहशः। स्पृशन्नपि गजो हन्ति । - (प० त०) सर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः। (शि० व०) स्रोतोरत्नं विबुधतटिनी। . (प्र० भ०) खं जीवितमपि सन्तो न गणयन्ति मित्रार्थे । (प० त०) स्वकर्मसूत्रग्रथितो हि लोकः ।


Page Navigation
1 ... 517 518 519 520 521 522 523 524