Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
१६
।
सुभाषितरत्नभाण्डागारम्
ARRANAMwwwwwwwwww
mmmmmmmmmmmmmmmmmmmmm
वृत्तं हि राज्ञामुपरुद्धवृत्तम्।
(र०वं०)
. वृथा सुप्तस्य भोजनम् । वृथा दानं समर्थस्य । वृथा दीपो दिवापि च । वृथा भवेदसङ्ग्रहान्धस्य हितोपदेशना । (कु० सं०) वृथा वृष्टिः समुद्रेषु । वृद्धस्य तरुणी विषम् । वृद्धा जना निष्करुणा भवन्ति । . .. । वृद्धा न ते ये न वदन्ति धर्मम् । वृद्धा नारी पतिव्रता। वेदाजानन्ति पण्डिताः ।। वेश्याङ्गनेव नृपनीतिरनेकरूपा। वेश्यानां च कुतः स्नेहः । व्याघ्रस्य चोपवासस्य पारणं पशुमारणम् । व्याजसप्रणयैर्वाक्यैर्जनम्या को न वश्यते। (क० स०) व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ।
(कु० सं०) व्याधितस्यौषधं मित्रम् । व्रताभिरक्षा हि सतामक्रिया । (कि० अ०) शक्तयो नियता वारि वैधुताग्निं नु हन्ति किम् (क० स०) शक्या हि केन निश्चेतुं दुर्जाना नियतेर्गतिः। (क० स०) शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । शयनतलरत्नं शशिमुखी।
(प्र० भ०) शरीरमूला हि नृपा मन्त्रमूला च राजता। (क० स०) शरीरमाद्यं खलु धर्मसाधनम् ।
(कु० सं०) शस्त्राघातान तथा सूचीक्षतबेदना यादृक् ।। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।
(२०५०) शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः। (कु. सं०) शास्त्रं हि निश्चितधियां क न सिद्धिमेति । (शि० व०) शास्वादूढिर्बलीयसी। शिरसि लिखितं लङ्घयति कः। शिष्यपापं गुरुस्तथा । शीलं परं भूषणम् । शीलं भूषयते कुलम् । शीलं हि विदुषां धनम् ।
(क० स०) शीलं हि सर्वस्य नरस्य भूषणम् ।। शुचिः क्षेमकरो राजा। शुचिर्नारी पतिव्रता। शुचिर्भूमिगतं तोयम् । शुभकृतहि सीदति ।
(क० स०) शुभस्य शीघ्रमशुभस्य कालहरणम् । शुभाचारस्य कः कुर्यादशुभं हि सचेतनः। (क० स०) शुष्कन्धने वहिरुपैति वृद्धिम्।।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः ।
(प० त०) शूरस्य मरणं तृणम् । शूराणां मृतमारणे नहि परो धर्मः प्रयुक्तो बुधैः । शूरा हि प्रणतिप्रियाः।
(क० स०) शोककन्दःक्वकन्या हिक्कानन्दः कायवान्सुतः। (क० स०) शोभन्ते विद्यया विप्राः। शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः । श्यालको गृहनाशाय।
(चा० नी०) श्रद्धया न विना दानम् । श्रवणपुटरलं हरिकथा ।
(प्र० भ०) श्रवणसुखसीमा हरिकथा ।
(प्र० भ०) श्रीकृष्णस्य कृपालवो यदि भवेत्कः कं निहन्तुं क्षमः। श्रीपतेः पदयुगं स्मरणीयम् । श्रीमङ्गलात् प्रभवति ।
(म० भा०) श्रेयसि केन तृप्यते।
(शि० व०) श्रेयान्हि मानिनो मृत्युर्नेगात्मप्रकाशनम् । (क० स०) श्रोत्रस्य भूषणं शास्त्रम् । संपत्सु महतां चित्तं भवत्युत्पलकोमलम् । संसर्गजा दोषगुणा भवन्ति ।
(भर्तृ०) संहर्षिणा सह गुणाभ्यधिकैर्दुरासम् । (शि० व०) सकलं शीलेन कुर्याद्वशम् । सकलकृतिसीमा श्रुतिभृतिः ।
(५० भ०) सकलगुणभूषा च विनयः। सकलगुणसीमा वितरणम् । सकलसुखसीमा सुवदना ।
(प्र० भ०) सकृतिविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ।
(र०व०)
स क्षत्रियस्त्राणसहः सतां यः। सखि साहजिक प्रेम दरादपि विजायते । संकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे। (क० स०) संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः । (क० स०) सङ्गः सतां किमु न मङ्गलमातनोति । (भाग०) सङ्गात्संजायते कामः।
(म० गी०) सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् । (क० स०) सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते । सतां महत्संमुखधावि पौरुषम् । (नै० च०) सतां हि चेतःशुचितात्मसाक्षिका । (नै० च०) सतां हि सङ्गः सकलं प्रसूयते ।
(भाग०) सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।
(म० शा०) सतां हि साधुशीलत्वात्स्वभावो न निवर्तते । सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् । (क० स०) सतीधर्मो हि सुस्त्रीणां चिन्त्यो न सुहृदादयः। (क० स०) स तु निरवधिरेकः सजनानां विवेकः । सत्त्वाधीना हि सिद्धयः।
(क० स०)
Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524