Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरनखण्डमञ्जूषा
(र० व०)
(भर्तृ०)
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम्। (भर्तृ०) वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः। वरं भिक्षाशित्वं न मानपरिखण्डनम् । (वृ० चा०) वरं मौनं कार्य न च वचनमुक्तं यदनृतम् । वरविभवभूषा वितरणम् । वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । (वृ० चा०) वर्तमानेन कालेन वर्तयन्ति विचक्षणाः । वशिनां न निहन्ति धैर्यमनुभावगुणः। (कि० अ०) वसुमत्या हि नुपाः कलत्रिणः । वस्त्रपूतं पिवेजलम् ।
(का० नी०) वस्त्राणामातपो जरा।
(प० त०) वाड्यात्रोत्पादितासरावैराको नानुतप्यते। (क० स०) वान्छारत्रं परमपदवी।
(प्र० भ०) वाते वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते । वामे विधौ न हि फलन्त्यभिवान्छितानि । वाराङ्गनेव नृपनीतिरनेकरूपा । वासः प्रधानं खलु योग्यतायाः। वासोविहीनं विजहाति लक्ष्मीः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भः प्रतीकारस्य ।
(अ० शा०) विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
(कु० सं०) विक्रियायै न कल्पते संबन्धाः सदनुष्ठिताः । (कु० सं०) विक्रीते करिणि किमङ्कुशे विवादः। विघ्नवत्यः प्रथितार्थसिद्धयः ।
(अ० शा०) विचित्रमायाः कितवा ईदृशा एव सर्वदा। (क० स०) विचित्ररूपाः खलु चित्तवृत्तयः । (कि० अ०) विचित्रविधये तस्मै सर्वदा विधये नमः। (क० स०) विचित्राः खलु वासनाः। विचित्रो बत कायस्य विपाकविषमः क्रमः। (क० स०) विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनां मतिः ।
(कि० अ०) वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । (वृ० चा०) विदग्धा अपि वजयन्ते विटवर्णनया स्त्रियः। (क० स०) विदेशे बन्धुलाभो हि मरावमृतनिझरः। (क० स०) विद्यातुराणां न सुखं न निद्रा । विद्या ददाति विनयम् । विद्या मित्रं प्रवासे च।
(वृ० चा०) विद्या रूपं कुरूपिणाम् । विद्या विवादाय धनम् ।
(गु० र०) विद्यासम नास्ति शरीरभूषणम् । विद्या सर्वस्य भूषणम् । विद्या स्तब्धस्य निष्फला । विद्वान्कुलीनो न करोति गर्वम् । .. विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः ।
3 सु०२० भां०
विद्वान्सर्वत्र पूज्यते ।
(चा० नी०) विधिरहो बलवानिति मे मतिः ।
(भाग०) विधिरुच्छृङ्खलो नृणाम् । विधिर्हि घटयत्यर्थानचिन्त्यानपि संमुखः। (क० स०) विधिलिखितं बुद्धिरनुसरति । विधेर्विचित्राणि विचेष्टितानि । विधेर्विलासानब्धेश्च तरङ्गान्को हि तर्कयेत् । (क० स०) विनयाद्याति पात्रताम् । विनयो हि सतीव्रतम् ।
(क० स०) विनाप्यर्थैर्धारः स्पृशति बहुमानोन्नति पदं। (हि०) विना मलयमन्यत्र चन्दनं न प्ररोहति । विनाशकाले विपरीतबुद्धिः।। बिनाश्रया न शोभन्ते पण्डिता वनिता लताः। विना हि गुर्वादेशेन संपूर्णाः सिद्धयः कुतः। (क० सं०) विनियोगप्रसादा हि किंकराः प्रभविष्णुषु। (कु० सं०) बिनीतनागः किल सूत्रधारैरैन्द्रं पदं भूमिगतोऽपि भुते ।
(र० ५०) विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् । (कु० सं०) विपदि न दूषितातिभूमिः।।
(शि० व०) विपदोऽपि पदं श्लाध्योऽपकारयति नो हि सः । (कु० सं०) विप्रियमण्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः । विभूषणं मौनमपण्डितानाम् ।
(भर्तृ०) विमल कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ।
(कि० अ०) विरक्तस्य तृणं जगत् । विरक्तस्य तृणं भार्या । विलम्बितुं न खलु सदा मनखिनो विधित्सवः कलहमवेक्ष्य विद्विषः।
(शि० व०) विलासिनी हि सर्वस्य संध्येव क्षणरागिणी। (क० स०) विवक्षितं ह्यनुक्तमनुतापं जनयति । (अ० शा०) विवेकधाराशतधौतमन्तः सतां न कामः कलुषीकरोति ।
(नै० च०) विशाखान्तानि मेघानि । विश्वासं स्त्रीषु वर्जयेत् ।
(वृ० चा०) विश्वासः कुटिलेषु कः।
(क० स०) विश्वासयत्याशु सतां हि योगः।
(कि० अ०) विषं गोष्ठी दरिद्रस्य । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ।
(र००) विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् । (क० स०) विषयिणः कस्यापदोऽस्तं गताः । (शि० पु०) विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् । (कु० सं०) वीरसाहाय्यनिर्विघ्नाः सुखलभ्या हि सिद्धयः । (क० स०) वीरो हि स्वाम्यमहति ।
(क० स०) वृक्षं क्षीणफलं त्यजन्ति विहगाः। (स० र०)
Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524